कठोपनिषत् १.२५ – श्वोभावा मर्त्यस्य यदन्तकैतत्
एवं यमेनोक्तानां भोग्यानां नश्वरत्वमिन्द्रियतेजोजरयितृत्वं च दोषं नचिकेता आह –
श्वोभावा मर्त्यस्य यदन्तकैतत् सर्वेन्द्रियाणां जरयन्ति तेजः।
अपि सर्वं जीवितमल्पमेव तवैव वाहास्तव नृत्यगीते॥२५॥
हे अन्तक हे मृत्यो। श्वोभावाः श्वः आगामिदिने भविष्यन्ति न वेति संदिग्धो भावः सत्ता येषां ते तथा। यद्वा श्वोऽभावो येषां ते तथा। एवम्भूताः त्वदुक्ता रामादयो भोग्याः मर्त्यस्य मरणधर्मपुरुषस्य सर्वेन्द्रियाणां यदेतत् तेजस्तज्जरयन्ति अपक्षयन्ति। तत्र रामाः स्वसंबद्धस्य पुरुषस्य तेजः चिरस्थितिहेतुभूतं रेतोलक्षणं सारमपहरन्ति। एवमन्येषामपि पुत्रादिभावानामिष्टानिष्टप्राप्तिपरिहारवियोगादिना मनसि क्षोभे जाते सति सर्वेन्द्रियाणां तेजो बलं जीर्यते इति प्रसिद्धं तेषां तेजोपहारकत्वम्। एवं तेजोधर्मयशःप्रज्ञादीनां क्षपयितृत्वादनर्थरूपा एव रामादयो भावा इति भावः। अपि सर्वजीवितं मनुष्याद्यायुः परिमितकालपर्यन्तप्राणधारणमपि अल्पं तुच्छं, ब्रह्मणोप्यायुषः तुच्छत्वात्। अतो वाहा रथादयः तवैव सन्तु। तथा नृत्यगीते नर्तनं गानं च तवैवास्त्वित्यर्थः॥२५॥