कठोपनिषत् १.२४ – ये ये कामा दुर्लभा मर्त्यलोके
किञ्च –
ये ये कामा दुर्लभा मर्त्यलोके सर्वान् कामाꣳश्छन्दतः प्रार्थयस्व।
इमा रामाः सरथाः सतूर्या न हीदृशा लम्भनीया मनुष्यैः।
आभिर्मत्प्रत्ताभि: परिचारयस्व नचिकेतो मरणं मानुप्राक्षीः॥२४॥
प्रार्थनीयपदार्थाः मर्त्यलोके पृथिव्यां दुर्लभाः लब्धुमशक्याः सन्ति। तान् सर्वान् कामान् पदार्थान् छन्दतः स्वेच्छया प्रार्थयस्व याचस्व। किञ्च इमांस्तवं पुरतो वर्तमाना रामाः रमणशीलाः स्वर्गस्त्रियः सरथाः रथसहिताः सतूर्याः तूर्येण वाद्यविशेषेण सहिताः हि यस्मात् ईदृशा उक्तविशेषणा रामा मनुष्यैः पृथिव्यां स्थितैः पुरुषैः न हि लम्भनीयाः न हि प्रापणीयाः। अतस्त्वं मत्प्रत्ताभिर्मया दत्ताभी रामाभिः परिचारयस्व स्वपादसंमर्दनादिशुश्रूषां कारयेत्यर्थः। हे नचिकेतः मरणं मानुप्राक्षीः मरणसम्बद्धं येयं प्रेते इत्यादिना काकदन्तपरीक्षासदृशमुक्तं प्रश्नं मा कार्षीः॥२४॥