कठोपनिषत् १.२३ – एतत्तुल्यं यदि मन्यसे वरम्
किञ्च –
एतत्तुल्यं यदि मन्यसे वरं वृणीष्व वित्तं चिरजीविकां च।
महाभूमौ नचिकेतस्त्वमेधि कामानां त्वा कामभाजं करोमि॥२३॥
एतेन मयोक्तेन तृतीयवरेण [तुल्यं] सदृशमन्यमपि वरं यदि मन्यसे जानासि तमपि वृणीष्व। एकैकं पुत्रधनादीनां वरत्वेनोपन्यस्य समुच्चितमधुनाऽऽह - वित्तमिति। वित्तं रत्नादिरूपं चिरजीविकां चिरकालपर्यन्तां वृत्तिं वृणीष्व इत्यर्थः। किं बहुनोक्तेन। हे नचिकेतः। महाभूमौ महत्यां पृथिव्यां त्वं राजा एधि भव। कामानां कामनीयपदार्थानां मध्ये यो यस्तव कामः कामनीयपदार्थोऽस्ति तद्भाजं भागिनं त्वा त्वां करोमि इत्यर्थः॥२३॥