ॐ गुरुपरमात्मने नमः



कठोपनिषत् १.२३ – एतत्तुल्यं यदि मन्यसे वरम्

किञ्च –

एतत्तुल्यं यदि मन्यसे वरं वृणीष्व वित्तं चिरजीविकां च।
महाभूमौ नचिकेतस्त्वमेधि कामानां त्वा कामभाजं करोमि॥२३॥

एतेन मयोक्तेन तृतीयवरेण सदृशमन्यमपि वरं यदि मन्यसे जानासि तमपि वृणीष्व। एकैकं पुत्रधनादीनां वरत्वेनोपन्यस्य समुच्चितमधुनाऽऽह - वित्तमिति। वित्तं रत्नादिरूपं चिरजीविकां चिरकालपर्यन्तां वृत्तिं वृणीष्वेत्यर्थः। किं बहुनोक्तेन। हे नचिकेतः महाभूमौ महत्यां पृथिव्यां त्वं राजा एधि भव। कामानां कामनीयपदार्थानां मध्ये यो यस्तव कामः कामनीयपदार्थोऽस्ति तद्भाजं भागिनं त्वा त्वां करोमीत्यर्थः॥२३॥