कठोपनिषत् १.२२ – शतायुषः पुत्रपौत्रान्
एवं नचिकेतसोक्तो यमस्तस्य वैराग्यपरीक्षणाय नानाविधवरैस्तं प्रलोभयन्नाह –
शतायुषः पुत्रपौत्रान् वृणीष्व बहून् पशून् हस्तिहिरयमश्वान्।
भूमेर्महदायतनं वृणीष्व स्वयं च जीव शरदो यावदिच्छसि॥२२॥
शतवर्षजीविनः पुत्रपौत्रान् पुत्रान् पौत्रांश्च वृणीष्व याचस्व। एवमग्रे क्रिया संबन्धनीया। तथा बहून् पशून् गवादिलक्षणान्। तथा हस्तिहिरण्यं हस्तिनः गजान् हिरण्यं काञ्चनं तथा अश्वान् सूर्य्याश्वसमानान् हयान्। भूमेः पृथिव्याः महदायतनं विस्तृतमण्डलं साम्राज्यं वृणीष्वेत्यर्थः। नन्वल्पायुषः पुरुषस्य सर्वमेतदनर्थकमित्याशङ्क्याह – स्वयं चेति। स्वयं च त्वं यावच्छरदः यावद्वर्षाणि जीवितुमिच्छसि तावद्वर्षाणि जीव प्राणान् धारयेति योजना॥२२॥