कठोपनिषत् १.२१ – देवैरत्रापि विचिकित्सितं किल
एवं यमेनोक्तो नचिकेता आह –
देवैरत्रापि विचिकित्सितं किल त्वं च मृत्यो यन्न सुविज्ञेयमात्थ।
वक्ता चास्य त्वादृगन्यो न लभ्यो नान्यो वरस्तुल्य एतस्य कश्चित्॥२१॥
अत्रात्मतत्वे देवैरपि देवानामपि विचिकित्सितं संशयः किलेति भवता एवा- स्माभिः श्रुतं हे मृत्यो। यम त्वं च त्वमपि यत् यस्मादात्मतत्वं न सुविज्ञेयं, अनायासेन ज्ञातुमशक्यं आत्थ कथयस्यतः अस्यात्मतत्वस्य वक्ता च उपदेष्टा त्वादृग् त्वत्सदृशो ऽन्यः त्वत्तो भिन्नो न लभ्यः न प्रापणीयः एतस्य वरस्य तुल्यः सदृशोऽन्यः कश्चिद् वरो नास्ति। ब्रह्मातिरिक्तस्य सर्वस्यानित्यत्वादित्यभिप्रायः॥२१॥