कठोपनिषत् १.२० – देवैरत्रापि विचिकित्सितं पुरा
नचिकेतस आत्मज्ञानयोग्यतां परीक्षितुं मृत्युराह –
देवैरत्रापि विचिकित्सितं पुरा न हि सुविज्ञेयमणुरेष धर्मः।
अन्यं वरं नचिकेतो वृणीष्व मा मोपरोत्सीरति मा सृजैनम्॥२०॥
हे नचिकेतः देवैरपि देवानामपि पुरा पूर्वमत्रात्मतत्वे विचिकित्सितं संशयोऽस्ति शमादिशालिनोपि देवा आत्मनि सन्दिह्य निश्चयं न गताः, कुतः पुनर्मनुष्याणां निर्णयाशेति भावः। तत्र हेतुमाह – न हीति। हि यस्मादात्मतत्वं न सुविज्ञेयं सुखेन ज्ञातुं योग्यं नास्ति। दुर्विज्ञेयत्वे हेतुमाह – अणुरिति। यस्मादेष धर्मः सर्वाधिष्ठानभूत आत्माऽणुः सूक्ष्मः। अतो अन्यं वरं आत्मज्ञानातिरिक्तं वरं वृणीष्व याचस्व मा मोपरोत्सीः आत्मज्ञानरूपवरदाने मा मां उपरोधं निर्बन्धं मा कार्षीः। एनं आत्मज्ञानात्मकं वरं मा मां प्रति अतिसृज विमुञ्चेत्यर्थः॥२०॥