कठोपनिषत् १.१९ – येयं प्रेते विचिकित्सा
लब्धवरद्वयस्य संसाररूपत्वात् तस्यानित्यत्वं सञ्चिन्त्य ततो विरक्तो मुमुक्षुः सन् नचिकेता आत्मयाथात्म्यज्ञानं तृतीयवरं याचते –
येयं प्रेते विचिकित्सा मनुष्येऽस्तीत्येके नायमस्तीति चैके।
एतद्विद्यामनुशिष्टस्त्वयाहं वराणामेष वरस्तृतीयः॥१९॥
मनुष्ये प्राणिनि प्रेते मृते सति येयं विचिकित्सा योऽसौ संशयः। संशयस्वरूपमाह – अस्तीति। अयमात्मा देहादिसंघाताद्व्यतिरिक्तो देहान्तरसम्बन्ध्यस्ति इति एवं एके वेदविदो वदन्ति एके च नास्तिकाः अयमात्मा देहादिसंघाताद्व्यतिरिक्तो नास्ति इति एवं वदन्ति। त्वया गुरुणाऽनुशिष्टः प्रज्ञापितोऽहं एतत् सन्दिग्धमात्मतत्वं यथा विद्यां विजानीयां तथा त्वं ब्रूहि इति योजना। वराणां मध्ये एषः आत्मज्ञानरूपः तृतीयो वरो दीयतामित्यर्थः॥१९॥