ॐ गुरुपरमात्मने नमः



कठोपनिषत् १.१८ – एष तेऽग्निर्नचिकेतः

द्वितीयवरप्रकरणमुपसंहरति –

एष तेऽग्निर्नचिकेतः स्वर्ग्यो यमवृणीथा द्वितीयेन वरेण।
एतमग्निं तवैव प्रवक्ष्यन्ति जनासस्तृतीयं वरं नचिकेतो वृणीष्व॥१८॥

हे नचिकेतो यं अग्निवरं द्वितीयेन वरेण अवृणीथाः त्वं प्रार्थितवानसि, स एषः अग्निः स्वर्ग्यः स्वर्गप्राप्तिसाधनं ते तुभ्यं मयेरित इति शेषः। किञ्च एतं प्रकृतमग्निं तवैव तव नाम्नैव जनासः जनाः प्रवक्ष्यन्ति कथयिष्यन्तीति प्रतिज्ञातवरत्रयादधिको वरः तुष्टेन मया दत्त इति शेषेणान्वयः। हे नचिकेतः तृतीयं दत्तवरद्वयादन्यं वरं स्वाभिलषितं वृणीष्व याचस्वेत्यर्थः॥१८॥