कठोपनिषत् १.१७ – त्रिणाचिकेतस्त्रयमेतद्विदित्वा
अग्निविज्ञानचयनयोः फलमुपसंहरति –
त्रिणाचिकेतस्त्रयमेतद्विदित्वा य एवं विद्वाꣳश्चिनुते नाचिकेतम्।
स मृत्युपाशान् पुरतः प्रणोद्य शोकातिगो मोदते स्वर्गलोके॥१७॥
एतत् पूर्वोक्तं त्रयं चेतव्यानामिष्टकानां स्वरूपसंख्याचयनप्रकारलक्षणं विदित्वा विज्ञाय त्रिणाचिकेतः त्रिवारं सम्पादिताग्निः यः कोपि पुरुष एवं विद्वान् आत्मभावेन विराड्रूपमग्निं जानन् सन् नाचिकेतं चिनुते नाचिकेतसंज्ञकाग्निध्यानं करोति स मृत्युपाशान् अधर्माज्ञानरागादिरूपान् पुरतः शरीरपातात् प्रागेव प्रणोद्य त्यक्त्वा शोकातिगो मानसदुःखरहितः मोदते स्वर्गलोके वैराजं पदं प्राप्तः सन् हृष्यतीत्यर्थः॥१७॥