कठोपनिषत् १.१६ – त्रिणाचिकेतस्त्रिभिरेत्य
ध्यानचयनयोः स्तुत्यर्थं पुनः फलमाह –
त्रिणाचिकेतस्त्रिभिरेत्य सन्धिं त्रिकर्मकृत् तरति जन्ममृत्यू।
ब्रह्मजज्ञं देवमीड्यं विदित्वा निचाय्येमाꣳ शान्तिमत्यन्तमेति॥१६॥
त्रिवारं चितः चयनेन सम्पादितो नाचिकेतोऽग्निर्येन सः त्रिणाचिकेतः। तद्विज्ञानवान् वा। त्रिभिः मातृपित्राऽचार्यैः सह वेदस्मृतिशिष्टैर्वा प्रत्यक्षानुमानागमैर्वा धर्मप्रमाणैः सन्धिं शिष्यशिक्षकभावसम्बन्धं एत्य प्राप्य त्रिकर्मकृत् इज्याध्ययनदानानां कर्ता सन् जन्ममृत्यू जन्ममरणे तरति अतिक्रामति। किञ्च ब्रह्मजज्ञं ब्रह्मणो हिरण्यगर्भाज्जायते इति ब्रह्मजः, सर्वं जानातीति ज्ञः, ब्रह्मजश्चासौ ज्ञश्च ब्रह्मजज्ञस्तं विराडात्मकमग्निं देवं प्रकाशरूपं ईड्यं सर्वैः स्तुत्यं विदित्वा शास्त्रतो ज्ञात्वा निचाय्य आत्मभावेन ध्यात्वा इमां यमबुद्धिप्रत्यक्षां शान्तिं वैराजं पदं अत्यन्तं नियमेन एति उक्तकर्मोपासनाभ्यां प्राप्नोतीत्यर्थः॥१६॥