ॐ गुरुपरमात्मने नमः



कठोपनिषत् १.१५ – तमब्रवीत् प्रीयमाणः

तदेव श्रुतिरभिनयति –

तमब्रवीत् प्रीयमाणो महात्मा वरं तवेहाद्य ददामि भूयः।
तवैव नाम्ना भविताऽयमग्निः सृङ्कां चेमामनेकरूपां गृहाण॥१५॥

प्रीयमाणः शिष्यस्यालौकिकीं प्रज्ञां दृष्ट्वा प्रसन्नचित्तः सन् महात्मा उदारचित्तो मृत्युः तं नचिकेतसं अब्रवीत् उक्तवान्। किमुक्तवानित्यत आह – वरमिति। तव तुभ्यं इह मम प्रीतिनिमित्तं वरं उक्तवरत्रयाधिकं भूयः पुनः अद्याधुना ददामि प्रयच्छामि। प्रतिज्ञातवरमाह – तवैव नचिकेतसो नाम्नाऽभिधानेनैव अयं मयोक्तोऽग्निः भविता भविष्यति। नैतावन्मात्रं वरमन्यदपीति नचिकेतसं प्रलोभयन्नाह – सृङ्कां शब्दवतीं रत्नमालां इमां मया दीयमानां अनेकरूपां नीलपीतादिनानावर्णवतीं गृहाण स्वीकुर्वित्यर्थः॥१५॥