ॐ गुरुपरमात्मने नमः



कठोपनिषत् १.१४ – लोकादिमग्निं तमुवाच

एवमग्निं स्तुत्वा मृत्युः स्वशिष्यायोवाचेति श्रुतिराह –

लोकादिमग्निं तमुवाच तस्मै या इष्टका यावतीर्वा यथा वा।
स चापि तत् प्रत्यवदद्यथोक्तमथास्य मृत्युः पुनरेवाह तुष्टः॥१४॥

तं प्रकृं अग्निं लोकानां पृथिव्यादीनां आदिं प्रथमशरीरिणं विराट्स्वरूपं तस्मै नचिकेतसे मृत्युर्यम उवाच उक्तवान्। किञ्च या इष्टकाः चेतव्या इष्टका यादृशरूपाः यावतीः यत्संख्याकाः यथा वा येन प्रकारेणाग्निः चीयते न्यस्यते तत्सर्वमुक्तवानित्यर्थः। स च नचिकेता अपि यथोक्तं यथा मृत्युना उक्तं तत् प्रत्यवदत् स्वस्य ग्रहणशक्तिमावेदयितुमन्ववदत्। अथ अनुवादानन्तरं अस्य नचिकेतसोऽनुवादेन तुष्टः प्रसन्नः सन् मृत्युः अयाचितं वरं दातुकामः पुनरेवाह नचिकेतसं प्रत्युक्तवानित्यर्थः॥१४॥