ॐ गुरुपरमात्मने नमः



कठोपनिषत् १.१३ – प्र ते ब्रवीमि

एवं नचिकेतसोक्तो यम आह –

प्र ते ब्रवीमि तदु मे निबोध स्वर्ग्यमग्निं नचिकेतः प्रजानन्।
अनन्तलोकाप्तिमथो प्रतिष्ठां विद्धि त्वमेतं निहितं गुहायाम्॥१३॥

हे नचिकेतः स्वर्ग्यमग्निं स्वर्गस्य साधनभूतमग्निं प्रजानन् विज्ञातवान् सन्नहम्। शब्दः यच्छब्दार्थकः यत्त्वया प्रार्थितं तत् तमग्निं ते तुभ्यं प्रब्रवीमि प्रकर्षेण वदामि। तत् त्वं मे मम वचनात् निबोध एकाग्रमनाः सन्नवधारय। तमग्निं स्तौति अनन्त इति। अनन्तलोकाप्तिं स्वर्गलोकप्राप्तिसाधनं अथो अपि प्रतिष्ठां विराड्रूपेण जगदाश्रयभूतमपि एतं अग्निं मयोच्यमानं गुहायां विदुषां बुद्धौ निहितं स्थितं त्वं विद्धि जानीहि॥१३॥