ॐ गुरुपरमात्मने नमः



कठोपनिषत् १.१२ – स त्वमग्निं स्वर्ग्यम्

एवंगुणवतः स्वर्गस्य साधनमग्निं च जानासि, तं मां प्रति कथयेत्याह –

स त्वमग्निꣳ स्वर्ग्यमध्येषि मृत्यो प्रब्रूहि तꣳ श्रद्दधानाय मह्यम्।
स्वर्गलोका अमृतत्वं भजन्त एतद् द्वितीयेन वृणे वरेण॥१२॥

स्वर्ग्यं स्वर्गप्राप्तिसाधनभूतं अग्निं सः सर्वलोकप्रसिद्धो मृत्युः त्वं अध्येषि जानासि हे मृत्योतं अग्निं श्रद्दधानाय श्रद्धावते मह्यं प्रब्रूहि प्रकर्षेण इतिकर्तव्यताद्यङ्गवैशिष्ट्यरूपेण कथय येन चितेनाग्निना स्वर्गलोकाः स्वर्गो लोको येषां ते स्वर्गलोकाः कर्मिणः अमृतत्वं अमरत्वं भजन्ते प्राप्नुवन्ति एतत् अग्निविज्ञानं द्वितीयेन वरेण वृणे प्रार्थये॥१२॥