ईशावास्योपनिषदः उपोद्घातः
उपनिपूर्वस्य षदॢ विशरणगत्यवसादनेष्विति धातोः क्विप्प्रत्ययान्तस्य रूपमुपनिषदिति। सामीप्यवाचिना उप-उपसर्गेण प्रत्यगात्मनो ब्रह्मसामीप्यमुच्यते। सामीप्यं च तयोरभेदरूपं विवक्षितम्। निशब्दो निश्चयार्थकः। तथा चोपसर्गद्वयेन प्रत्यगात्मब्रह्मणोरभेदनिश्चयरूपा विद्योक्ता। विशरणावसादनगतयो धात्वर्थाः। क्विप्प्रत्ययश्चात्र कर्तरि विवक्षितः। तथा च प्रत्यगात्मब्रह्मगोचरा विद्या विदुषामनर्थं शातयति शिथिलीकरोति, अवसादयति नाशयति वा, ब्रह्म गमयति वेत्युपनिषच्छब्दव्युत्पत्त्या सफला ब्रह्मविद्योच्यते।
The word upaniṣad is composed of the two upasargas upa and ni along with the verbal root ṣadl̥ which has the meanings ‘viśaraṇa’, ‘gati’, and ‘avasādana’ and the suffix kvip.
The upasarga upa indicates closeness of the pratyagātma and brahma. Their non-diference is indicated. The upasarga ni indicates certainty.
This vidyā, that is the doer loosens the anartha of the knower, or destroys it, or takes one to brahma. Thus, the brahma vidyā is explained.
यद्वा – उप सामीप्येन विषयतया नि नितरां ब्रह्मस्वरूपं परमश्रेयोऽस्यां विद्यायां स्थितमित्युपनिषत् ब्रह्मविद्या। ग्रन्थे तु ब्रह्मविद्याप्रयोजकत्वाल्लक्षणयोपनिषच्छब्दप्रयोगः।
एवं व्याख्येयस्य ग्रन्थस्य ब्रह्मविद्यार्थत्वोक्त्या मानान्तरानधिगतं ब्रह्म तस्य विषयः, तद्विद्याद्वारा मुक्तिः प्रयोजनं, सम्बन्धस्तु विषयेण सह ग्रन्थस्य प्रतिपाद्यप्रतिपादकलक्षणः चतुष्टयसाधनसम्पन्नोऽधिकारीत्यनुबन्धचतुष्टयं प्रेक्षावतां प्रवृत्त्यङ्गभूतं तावत्सिद्धम्॥
Brahma – which is not known by any other means – is the viṣaya. The resulting mukti is the prayojana. The sambandha is the pratipādya-pratipādaka relationship. And the adhikārī has the sādhana catuṣṭaya sampatti.