ॐ गुरुपरमात्मने नमः



ईशावास्योपनिषदः मङ्गलम्

ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते॥१॥
ॐ शान्तिः शान्तिः शान्तिः॥

अदः निरुपाधिकं परोक्षं तत्पदार्थरूपं ब्रह्म, पूर्णं आकाशवद् व्यापि निरन्तरम्। यत् इदं नामरूपोपाधिविशिष्टं व्यवहारापन्नं त्वंशब्दार्थरूपं, तदपि निरुपाध्यात्मरूपेणैव पूर्णं, न तु विशिष्टरूपेण पूर्णम्।

adas indicates the parokṣa tat-padārtha brahma, devoid of upādhis. Like the ākāśa, it is all-pervading and complete. idam indicates tvam-padārtha with the nāma and rūpa upādhis in vyavahāra. This too, without upādhis is pūrṇa. Here, pūrṇa is not with the nāma & rūpa.

एवं तत्त्वंपदयोः क्रमेण लक्ष्यांशमुक्त्वा, तयोरेव वाच्यांशं कथयन्, त्वंपदार्थस्य पूर्णत्वे हेतुमाह – पूर्णादिति। तदिदं विशेषरूपमापन्नं ब्रह्म पूर्णात् कारणात्मनः सकाशात् पूर्णं एव उदच्यते उद्रिच्यते उद्गच्छति, पूर्णात्मस्वभावस्य त्यागायोगात्।

Having thus declared the lakṣya aṁśa of tat and tvam, the hetu for pūrṇatva of the tvam pada is explained. From the kāraṇātma brahma, the kārya brahma arises, as it cannot leave behind it’s pūrṇa ātma svabhāva.

एतज्ज्ञानफलं लक्ष्ययोरैक्यापत्तिरूपमाह – पूर्णस्येति। पूर्णस्य कार्यात्मनो ब्रह्मणः पूर्णं पूर्णत्वमेकरसत्वलक्षणं आदाय गृहीत्वा विद्ययाऽविद्यकोपाधिसंसर्गतिरस्कारपूर्वकं पूर्णं एव निरन्तरं प्रज्ञानघनैकरसस्वरूपमेव केवलं ब्रह्म अवशिष्यते इति स्पष्टार्थः।

Through this jñāna, obtaining aikya results. From the kārya brahma, when the pūrṇa eka rasa is taken, i.e. through this vidyā, the mixture with upādhi-rūpa-avidyā is left behind, pūrṇatva alone (which is prajñāna-ghana eka-rasa svarūpa) remains.

शान्तिरिति त्रिर्वचनमाध्यात्मिकाधिभौतिकाधिदैविकानां विद्याप्रात्युपसर्गाणां प्रशमनार्थमिति बोध्यम्॥