ईशावास्योपनिषदः उपोद्घातः
अथ शुक्लयजुर्वेदे वाजसनेयिसंहितायामीशावास्योपनिषत्।
ननु – ईशावास्यमित्यादयो मन्त्राः कर्मप्रतिपादका मन्त्रत्वात् “इषे त्वा” इत्यादिमन्त्रवत्, अतो न पृथग्विषयप्रयोजनादिसिद्धिरिति चेत् न, विनियोजकप्रमाणाभावात् प्रकरणान्तरत्वाच्च। नहि “इषे त्वेति शाखां छिनत्ति” इत्यत्र यथा ब्राह्मणघटिकीभूतशाखाशब्दोत्तरद्वितीया श्रुतिरङ्गप्रधानभावसम्बन्धबोधिका। तथा “ईशावास्यम्” इत्यादिमन्त्रेषु किञ्चिद्विनियोजकप्रमाणमस्ति, येन कर्मप्रतिपादकाः स्युः। “इषे त्वा” इति मन्त्रभागः, “इति शाखां छिनत्ति” इति ब्राह्मणभागः। हे पलाशशाखे इषे अन्नाय त्वा त्वां छिनद्मीति मन्त्रार्थः। इति उक्तमन्त्रेण शाखां छिनत्ति छिन्द्यादिति ब्राह्मणार्थः। न च कर्माङ्गात्मप्रकाशनरूपसामर्थ्यरूपलिङ्गादेषां कर्माणि विनियोग इति वाच्यम् शुद्धत्वादिविशेषणानां कर्माङ्गत्वे मानाभावात् , कर्मविरोधित्वाच्च। नाप्येते मन्त्रा जपमात्रोपयोगिनो न विवक्षितार्थबोधका इति शक्यं वक्तुम् उपक्रमोपसंहारादिलिङ्गैरेकात्मतायां तात्पर्यावधारणात्। अस्ति हि ‘ईशावास्यम्’ इत्युपक्रमः, ‘सपर्यगात्’ इत्युपसंहारः, ‘अनेजदेकं’, ‘तदन्तरस्य’ इत्यभ्यासः, ‘नैनद्देवा आप्नुवन्’ इत्यपूर्वतोक्तिः, ‘को मोहः कः शोकः’ इति फलोक्तिः, ‘कुर्वन्नेवेह कर्माणि’ इत्यविदुषः कर्मकरणानुवादेन ‘असुर्य्या नाम ते लोकाः’ इति कर्मनिन्दयैक्यात्म्यविद्यायाः स्तुतिरुक्ता, ‘तस्मिन्नपो मातरिश्वा’ इत्युपपत्त्युक्तिः। न च ब्रह्मात्मैकत्वस्वीकारे कर्मकाण्डाधिकार्य्यभावात् कर्मकाण्डाप्रामाण्यप्रसङ्ग इति वाच्यम् अर्थित्वादिविशेषणवतामविदुषामेव कर्मण्यधिकारसम्भवात्। एवं पृथग्विषयप्रयोजनादिमद्भिर्मन्त्रैर्दध्यङ्ङाथर्वण ऋषिः शिष्यं पुत्रं वा मुमुक्षु विधिवदुपसन्नमुपदिशति –