- १६९-२२५ पूर्वोपदिष्टविषये आक्षेपसमाधानानि
- २१९-२२३ इन्द्रियसंबन्धं विना “अहं ब्रह्म” इति ज्ञानस्य कथं प्रत्यक्षतेति तत्त्वदृष्टिप्रश्नः
- २१९-२२३ ब्रह्म न ज्ञानेन्द्रियाणां विषयः
आवर्तः २२० – ब्रह्म न चक्षुषो विषयः
रूपवतः पदार्थस्य अथवा नीलादिवर्णस्यैव ज्ञानं चक्षुषा जन्यते। ब्रह्म तु न तादृशम्; अतो न ब्रह्म नेत्रेन्द्रियजन्यज्ञानविषयः। मनुष्याकारेणावतीर्णानां रामकृष्णादीनां मूर्तयो यद्यपि रूपादिमत्यस्तथापि ता मूर्तयो मायिकत्वान्मिथ्या। अतो न ता मूर्तयो ब्रह्मरूपाः। यद्यपि पुराणादिषु रामकृष्णादीनां ब्रह्मरूपेण वर्णनमस्ति तथापि तद्वचनं न तदीयशरीरस्य ब्रह्मत्वबुद्ध्या प्रवृत्तं किन्तु तदीयशरीराधिष्ठानचैतन्यस्य ब्रह्मत्वबुद्ध्येति ज्ञेयम्।
ननु – मनुष्यपशुपक्ष्यादिसर्वशरीराणामप्यधिष्ठानं ब्रह्मचैतन्यमेव अधिष्ठानचैतन्याभिप्रायेण रामकृष्णादीनां ब्रह्मत्वे सर्वशरीराणामपि ब्रह्मचैतन्यस्यैवाधिष्ठानत्वान्मनुष्यपशुपक्ष्यादयोऽपि ब्रह्मरूपा भवेयुः। तथा च पश्वादिसमा एव रामकृष्णादयोऽपि भवेयुः। तस्माद्रामकृष्णादीनां जीवान्तरापेक्षया वैशिष्ट्यसिद्धये तदीयशरीरे एव ब्रह्मबुद्धिरुचिता, न तु तदीयशरीराधिष्ठानचैतन्यदृष्ट्या तेषु ब्रह्मबुद्धिरिति चेत्।
तन्न। शरीरं बाधित्वा रामकृष्णादिशरीराणां ब्रह्मत्वविवक्षणे पश्वादिशरीराणामपि बाधपूर्वं ब्रह्मत्वं सिद्ध्येत्। बाधाभावे तु जीवान्तराणां शरीरवत् करचरणाद्यवयवसहितस्य रूपक्रियादियुक्तस्य रामकृष्णादेः शरीरस्य निरवयवत्वेन रूपक्रियादिशून्येन ब्रह्मणा सहाभेदो न घटेत। तस्मात् सावयवं रूपक्रियादियुक्तं रामकृष्णादेः शरीरं न ब्रह्म।
परन्त्वियान् भेदोऽस्ति – जीवानां शरीरं पुण्यपापाधीनं भूतकार्यं च। किञ्च जीवानां देहाद्यनात्मपदार्थेष्वविद्याबलात् ‘अहम्, मम’ इत्यध्यासो भवति, स चाध्यास आचार्योपदेशान्निवर्तते।
रामकृष्णादीनां शरीरं तु न तदीयपुण्यपापजन्यं नापि भौतिकम्। परन्तु सृष्टेः प्राक् यदा प्राणिनां कर्मफलदानोन्मुखं भवति तदा आप्तकामस्यापीश्वरस्य प्राणिनां कर्मानुसारेण ‘अहं जगत्सृजेयम्’ इति सङ्कल्पो जायते। तेन सङ्कल्पेन जगदुत्पत्तिरूपा सृष्टिर्भवति। तथैव सृष्टेः परमपि ‘अहं जगत्पालयेयम्’ इतीश्वरस्य सङ्कल्पो जायते। तेन सङ्कल्पेन जगद्रक्ष्यते। कर्मानुसारेण सुखदुःखादिसंबन्ध एव पालनम् इत्युच्यते। पालनसङ्कल्पमध्ये उपासकानामुपासनफलत्वेन ‘रामकृष्णादिनामसहिता मूर्तयः सर्वेषां प्रतीयन्ताम्’ इति चेश्वरस्य सङ्कल्पो भवति। अनेनेश्वरसङ्कल्पेन नामरूपादिरहिते ईश्वरे रामकृष्णादिनामानि पीताम्बरादिसहितसुन्दरविग्रहाश्चोत्पद्यन्ते। न ते रामकृष्णादीनां विग्रहास्तदीयकर्माधीनाः।
तैश्च रामकृष्णादिविग्रहैः साधूनां सुखं दुष्टानां दुःखं चोत्पद्यते। यच्छरीरं यस्य सुखदुःखादेर्हेतुर्भवति तच्छरीरं तदीयपुण्यपापजन्यमिति न्यायः। अनेन न्यायेन रामकृष्णादीनां शरीरं साधूनां सुखहेतुत्वात्साधूनां पुण्यपुञ्जफलम्, असुरादीनां दुष्टानां दुःखहेतुत्वात्तेषां पापफलं च भवति। एवमवतारपुरुषशरीरस्यापि पुण्यपापाधीनत्वात्तदनधीनत्वोक्तिरसङ्गतेति चेत्।
अत्रेदं तत्त्वम् – जीवेन पूर्वशरीरे कृतपुण्यपापयोः फलमुत्तरशरीरे तस्यैव जीवस्य सुखदुःखादिरूपं भवति। तस्माच्छरीराभिमानवतो जीवस्य पूर्वजन्मनि स्वेनैव कृतपुण्यपापयोरधीनमुत्तरशरीरमित्युच्यते। रामकृष्णाद्यवतारपुरुषशरीरं तु साध्वसाधुजनसुखदुःखहेतुत्वात्साध्वसाधुजनकृतपुण्यपापाधीनमेव, न तु रामकृष्णादिपुण्यपापाधीनम्। अत एव न तेन शरीरेण रामकृष्णादीनां सुखदुःखभोगः। तस्माद्रामकृष्णाद्यवतारपुरुषशरीरं तदीयपुण्यपापाद्यधीनं नेति सिद्धम्।
किञ्च रामकृष्णादिशरीरं न पञ्चभूतपरिणामः, किन्तु चैतन्याश्रितमायापरिणामः। पञ्चीकृतभूतपरिणामत्वे कृष्णशरीरस्य रज्जुकृतबन्धनाविषयत्वं भागवतादिषु वर्णितमसङ्गतं भवेत्। यद्यपि पञ्चभूतकार्ययोगिशरीरस्यापि बन्धनाविषयत्वं दृश्यते, तथापि योगिशरीरं प्रथमं बन्धनविषयतामापद्यैव पश्चाद्योगमहिम्ना बन्धाद्विमुक्तं भवति। कृष्णादिशरीरं तु न योगिशरीरवद्योगमहिम्ना बन्धाविषयतां याति; किन्तु स्वभावत एव बन्धाद्यवशम्। तस्मान्नावतारपुरुषशरीरं पञ्चभूतपरिणामः। भगवत्पादकृतमाण्डूक्योपनिषद्भाष्यस्य टीकायामानन्दगिरिस्वामिभिः रामादिशरीरस्य भूतपरिणामत्वं यदुक्तं तदपि स्थूलदृष्टीनामितरशरीरतुल्यतयैवावतारपुरुषशरीरमपि प्रतीयते इत्यभिप्रायेणेति मन्तव्यम्। अत एव भगवत्पादैर्गीताभाष्योपक्रमे “स च भगवान् स्वां मायां वशीकृत्याजोऽव्ययोऽपि सन् स्वमायया देहवानिव जात इव च लोकानुग्रहं कुर्वन्निव लक्ष्यते” इति “जगतः स्थितिं परिपिपालयिषुः स आदिकर्ता विष्णुर्देवक्यां वसुदेवादंशेन कृष्णः किल सम्बभूव” इति च कृष्णशरीरं मायाकार्यत्वेन वर्णितम्। तस्मान्न भूतेभ्योऽवतारपुरुषशरीरमुत्पद्यते। किन्तु तदुपादानकारणं साक्षान्मायैव।
इतरेषां जीवानां देहे ‘अहम्’ इत्यात्मभ्रान्तिरस्ति। रामकृष्णादीनां तु न सा भ्रान्तिरस्ति। जीवस्योपाधिभूता ‘अविद्या’ मलिनसत्त्वयुक्ता; रामकृष्णादीनामुपाधिभूता ‘माया’ तु शुद्धसत्त्वयुता। तस्माज्जीवस्याविद्याकार्यभूता भ्रान्तिः, रामकृष्णादेर्मायाकार्यभूतसर्वज्ञत्वं चास्ति। जीवस्याज्ञानप्रयुक्तावरणभ्रान्त्योर्निवृत्तये आचार्यमुखान्महावाक्योपदेशजन्यज्ञानमपेक्षितम्। रामकृष्णादेरावरणभ्रान्त्योरभावेनोपदेशजन्यज्ञानं नापेक्षितम्। तथापि जीवस्यान्तःकरणवृत्तिरूपज्ञानमिवेश्वरस्य मायावृत्तिरूपात्मज्ञानमुपदेशं विनैव जायते। किन्तु न तेन ज्ञानेन प्रयोजनमीश्वराणां सिद्ध्यति।
तथा हि, जीवस्य घटादिज्ञानेनावरणभङ्गो घटादिरूपविषयस्य प्रकाशश्चेति फलं सिद्ध्यति। जीवस्य ‘अहं ब्रह्म’ इति ब्रह्माकारात्मज्ञानोदये तु तादृशज्ञानविषयीभूतस्यात्मन आवरणभङ्गमात्रं ज्ञानेन जन्यते। आत्मरूपो विषयस्तु स्वयमेव प्रकाशते। तस्मादात्मज्ञानेन विषयो न प्रकाशते।
एवमीश्वरस्य ‘अहं ब्रह्मास्मि’ इति मायावृत्तिरूपज्ञानस्य विषयभूतः ईश्वरस्यात्मा आवरणरहितस्वयंप्रकाशस्वरूपोऽस्ति। तस्मादावरणभङ्गो वा विषयप्रकाशो वा नेश्वरज्ञानस्य प्रोयोजनम्। यथा जीवन्मुक्तस्य विदुष आवरणरहितमात्मानं विषयीकुर्वन्ती ‘अहं ब्रह्मास्मि’ इत्यन्तःकरणवृत्तिरावरणभङ्गादिप्रयोजनशून्या भवति, तथैवेश्वरस्यापि आवरणभङ्गादिप्रयोजनशून्यं मायावृत्तिरूपं ‘अहं ब्रह्मास्मि’ इति ज्ञानं विनैवोपदेशादिसाधनमुत्पद्यते।
इत्थं रामकृष्णादीनां जीवाद्वैशिष्ट्यसत्वेनेश्वरत्वं सिद्ध्यति। तथापि तेषां शरीरं मायाकार्यम्। अत एव न तद्ब्रह्मरूपम्, किन्तु मिथ्या। मायाकार्यभूतमवतारपुरुषाणां शरीरं करचरणाद्यवयवोपेतं रूपसहितं चोत्पादितम्। तस्मात्तेषां शरीरं नेत्रेन्द्रियविषयतामापद्यते। तथापि नेत्रेन्द्रियं न ब्रह्म विषयीकरोति।