ॐ गुरुपरमात्मने नमः

This is a very early draft, and has not been proofread.

14.232   जीवन्मुक्तौ प्रपञ्चस्य प्रतीतिः कस्मात् भवति?

अविद्यायाः शक्तिद्वयं – आवरणं विक्षेपश्च। ज्ञानेन आवरणशक्तिः नश्यति, यस्मात् ज्ञानिनः जन्मान्तरं नास्ति। परन्तु प्रारब्धबलेन दग्धधान्यकणवत् विक्षेपशक्तिः (अविद्यालेशः) तिष्ठति। अतः जीवन्मुक्तौ प्रपञ्चस्य प्रतीतिः भवति।