ॐ गुरुपरमात्मने नमः

This is a very early draft, and has not been proofread.

11.209   कूटस्थस्य च बुद्धौ प्रतिबिम्बरूपजीवस्य च परस्परं अध्यासः कीदृशः?

अविचारदृष्ट्या – कूटस्थस्य सत्यतायाः संसर्गः (तादात्म्यसंबन्धः) जीवे अध्यस्तः। अयं जीवः मिथ्या न प्रतीयते, किन्तु सत्यं प्रतीयते। जीवः तत्कर्तृत्वादिधर्मस्वरूपं कूटस्थे अध्यस्तम्। कूटस्थः अकर्ता अभोक्ता असंसारी नित्यमुक्तः असङ्गः ब्रह्मरूपः इति न प्रतीयते, किन्तु तत्विपरीतं प्रतीयते। अनया रीत्या कूटस्थस्य जीवस्य च परस्परं अध्यासो भवति।