ॐ गुरुपरमात्मने नमः

This is a very early draft, and has not been proofread.

11.204.4   भागत्यागलक्षणा स्वीकार्या

भागत्यागलक्षणायां वोरिधिभागं त्यक्त्वा अविरोधिभागः ग्रहीतव्यः। अत्र तु – तत्त्वंपदयोः वाच्यार्थस्य धर्मसहितमायाविद्यारूपविरोधिभागः त्याज्यः। अविरोधिनः असङ्गशुद्धचेतनभागः ग्राह्यः। अनया रीत्या ऐक्यं भवति, परमपुरुषार्थप्राप्तिश्च भवति। एवं महावाक्ये भागत्यागलक्षणा संभवति।