ॐ गुरुपरमात्मने नमः

This is a very early draft, and has not been proofread.

11.204.2   जहल्लक्षणा असंभवा

यत्र जहल्लक्षणा, तत्र संपूर्णवाच्यार्थस्य त्यागो भवति। महावाक्यस्य जहल्लक्षणा अभिमता चेत् – तत्त्वंपदयोः वाच्यार्थः त्यक्तव्यः। तदन्तर्गतस्य ब्रह्मचैतन्यस्य साक्षिचैतन्यस्य चापि त्यागः कार्यः। तद्भिन्नस्य असज्जदुःखरूपस्य प्रपञ्चस्य ग्रहणं कार्यं भवति। अथवा सोपाधिकस्य चेतनस्य उपाधिभागः समष्टिव्यष्टिप्रपञ्चमयः त्यक्तव्यः। अविशेष्यते सून्यम्। अनया रीत्या महानर्थप्राप्तित्वात् महावाक्ये जहल्लक्षणा असंभवा।