ॐ गुरुपरमात्मने नमः

This is a very early draft, and has not been proofread.

10.191   विशेषचैतन्यस्य दृष्टान्तः कः?

दृष्टान्तः – सूर्यस्य प्रकाशः सर्वत्र समानः। परन्तु सर्वत्र प्रतिबिम्बो न दृश्यते। यत्र जलरूपोपाधिः दर्पणरूपोपाधिः वा भवति, तत्रैव प्रतिबिम्बरूपः विशेषः भासते। अथवा – सूर्यस्य प्रकाशः सर्वत्र समानः। परन्तु न सः वस्त्रकार्पासादिकं न दहति। सूर्यकान्तमणिरूपोपाधिना अग्निरूपविशेषः सन् वस्त्रकार्पासादिकं दहति। सामान्यरूपं सर्वदा यथारूपं बहुकालस्थायि तिष्ठति। उपाधिरूपेण विशेषरूपः सन् भासते। स च व्यभिचारी अल्पकालस्थायी। सामान्यचैतन्यं अस्तिभातिप्रियरूपम्। तत् सर्वत्र समानम्। परन्ति तत्र वचनं चलनं इयादिविशेषव्यवहारो न भवति। यत्र अन्तःकरणरूपोपाधिः भवति, तत्र चिदाभासरूपविशेषचैतन्यं वदति चलति। तस्य कर्तृत्वं भोक्तृत्वं च भवति। परलोकगमनागमनादिकं भवति। एवं विशेषव्यवहारो भवति। सामान्यचैतन्यं ब्रह्म सत्यम्। उपाधिना भासमानं विशेषचैतन्यं चिदाभासः मिथ्या। पुण्यपापकर्तृत्वं सुखदुःखभोक्तृत्वं परलोकगमनागमनादिकं जननमरणादिकं पौनःपुन्येन जननं इत्यादिसंसाररूपधर्मः चिदाभासस्य मिथ्या एव।