ॐ गुरुपरमात्मने नमः

This is a very early draft, and has not been proofread.

9.187   अनया रीत्या विशेषणार्थप्रतिपादनस्य किं प्रयोजनम्?

अनया रीत्या विशेषणार्थप्रतिपादनस्य प्रयोजनं उच्यते – चैतन्यं मनोवागगोचरं इति कृत्वा श्रुत्यर्थेन अविरोधो भवति। गुणक्रियाजतिसंबन्धिशब्दः मनःप्रवृत्तिनिमित्तधर्मः। नेदं ब्रह्म, किन्तु निर्धर्मत्वात् ब्रह्म निर्विशेषम्। श्रुतिरपि ब्रह्म मनोवाचां अविषयप्रतिपादनात्। अथवा यत्किमपि उच्यते तद्द्वैतमेव, न तु अद्वैतम्। पूर्वोक्तरीत्या विशेषणार्थप्रतिपादनात् श्रुतिविरुद्धा द्वैतसिद्धिः न भवति। अद्वैतस्य सुखेन अवबोधो भवति। ॥इति श्रीविचारचन्द्रोदये अवाच्यसिद्धान्तवर्णनं नाम नवमी कला समाप्ता॥