जाग्रति सर्वेभ्यः प्रियं द्रव्यम्। धनाय पुरुषः देशं त्यक्त्वा परदेशं गत्वा अनेकनीचकर्माणि करोति। अतः द्रव्यं प्रियम्। द्रव्यात् पुत्रः प्रियः। पुत्रः दुष्टकर्म आचर्य कारागृहे बद्धे सति, धनं समर्प्य सः मुच्यते। अतः धनात् पुत्रः प्रियः। पुत्रात् शरीरः प्रियः। दुर्भिक्षायां आपत्काले पुत्रं विक्रीय शरीरस्य निर्वहणं क्रियते। अतः पुत्रात् शरीरं प्रियम्। शरीरात् इन्द्रियं प्रियम्। आतङ्कवादिनं “शरीरं ताडय, परन्तु नेत्रं श्रोत्रं रसनां मा विघाटय” वदन्ति लोकाः। अतः शरीरात् इन्द्रियं प्रियम्। इन्द्रियात् प्राणः (मनः) प्रियः। दुष्टकर्म कृतवन्तं राजा प्राणैः दण्डयति। तदोच्यते – मम धनं पुत्रं स्त्रियं गृहं वा स्वीक्रियताम्। किन्तु प्राणाः रक्षणियाः इति। तदापि राज्ञा पुनरादिष्टे सति उच्यते – कर्णः रसना हस्तः पादो वा त्याज्यः न तु प्राणाः अपनेतव्याः। एवं इन्द्रियेभ्यः प्राणाः प्रियाः। प्राणेभ्यः आत्मा प्रियः। कस्यचित् अतिशयविध्या पीडा अनुभूयते। तदा उच्यते – प्राणेषु गतेषु अहं सुखी भवेयम् इति। एवं प्राणेभ्यः आत्मा प्रियः। एवं प्रीतेः न्यूनाधिकभावः ज्ञेयः। ॥इति श्रीविचारचन्द्रोदये सच्चिदानन्दविशेषवर्णनं नाम अष्टमी कला समाप्ता॥