ॐ गुरुपरमात्मने नमः

This is a very early draft, and has not been proofread.

8.178   त्रिषु कालेषु अहं प्रियः, अतः आनन्दः, इति कथं ज्ञेयम्?

जाग्रति स्वप्ने सुषुप्तौ अहं प्रियः। प्रातः मध्याह्ने सायं अहं प्रियः। रात्रौ पक्षे मासे अहं प्रियः। मासे ऋतौ वर्षे अहं प्रियः। बाल्ये यौवने वार्धक्ये अहं प्रियः। पूर्वदेहे वर्तमानदेहे भविष्यद्देहे अहं प्रियः। युगे मनौ कल्पे अहं प्रियः। भूते भविष्ये वर्तमाने अहं प्रियः। इत्येवं त्रिषु कालेषं अहं परमप्रियः। अतोऽहं आनन्दः। इति ज्ञेयम्।