ॐ गुरुपरमात्मने नमः

This is a very early draft, and has not been proofread.

8.168   त्रिषु कालेषु अहमस्मि सदस्मि इति कथं ज्ञेयम्?

जाग्रति स्वप्ने सुषुप्तौ अहमस्मि। प्रातः मध्याह्ने सायं अहमस्मि। दिवा रात्रौ पक्षे अहमस्मि। मासे ऋतौ वर्षे अहमस्मि। बाल्ये यौवने वार्धक्ये अहमस्मि। पूर्वदेहे वर्तमानदेहे भविष्यद्देहे अहमस्मि। युगे मनौ कल्पे अहमस्मि। भूते वर्तमाने भविष्ये अहमस्मि। इत्येवं त्रिषु कालेषु अहमस्मि सदस्मि इति ज्ञेयम्।