सच्चिदानन्दादयः आत्मनः गुणाः न परस्परभिन्नाः। यतो हि न ते आत्मनः गुणाः, किन्तु स्वरूपाः। अतः न ते परस्परभिन्नाः किन्तु अभिनाः एव। एक एव आत्मा नाशरहितः सत्। जडविलक्षणः प्रकाशरूपः चित्। दुःखविलक्षणः मुख्यप्रीतिविषयः आनन्दः। एवं सर्वाणि विशेषणानि ज्ञातव्यानि। दृष्टान्तः – एक एव पुरुषः पितृदृष्ट्या पुत्रः, पितामहदृष्ट्या पौत्रः, पितृव्यदृष्ट्या भ्रातृजः, मातुलदृष्ट्या ???। अथवा एकः सन्न्यासी पशुस्त्रीगृहस्थादण्डीदृष्ट्या मनुष्यः पुरुषः त्यागी दण्डी इत्यदिविधेयविषणैः कथ्यते। घटपाषाणवृक्षादिदृष्ट्या अघटः अपाषाणः अवृक्षः इत्यादिनिषेध्यविशेषणैः कथ्यते। एवं एक एव आत्मा प्रपञ्चविशेषणीभूत-असज्जडदुःखान्तखण्डसङ्गादि-दृष्ट्या सच्चिदानन्दादिकं अनन्तादिकं च कथ्यते। एवं आत्मनः विशेषणानि न परस्परं भिन्नानि, किन्तु अभिन्नामि। ॥इति श्रीविचारचन्द्रोदये आत्मविशेषणवर्णनं नाम सप्तमी कला समाप्ता॥