दॄष्टान्तः – घटोपाधिना आकाशः घटाकाशः इति कथ्यते। तस्य आकाशस्य घटेन सङ्गः प्रतीयते। घटस्य धर्मः उत्पत्तिनाशनमनानमादिरूपः नाकाशं स्पृशति, यतः आकाशः असङ्गः। आकाशस्य घटेन भासमानः संबन्धः भ्रान्तिरेव। दार्ष्टान्तः – देहादिसंघातरूपोपाधिवान् आत्मा जीवः। तस्य आत्मनः संघातेन सङ्गो भासति। संघातस्य धर्मः जन्ममरणादिकं नात्मानं स्पृशति। संघातः दृश्यः, आत्मा तु द्रष्टा। आत्मनः संघातेन असङ्गता। आत्मा न हि संघातरूपः। आत्मनः संघातेन अहंतारूपसम्बन्धः न भवति, न वा आत्मा संघातः। संघातस्तु पञ्चमहाभूतजन्यः। अतः आत्मना संघातस्य ममतारूपसंबन्धोऽपि नास्ति। आत्मा संघातविलक्षणः। आत्मनः संघातसंबद्धस्त्रीपुत्रगृहादिकेन ममतारूपसंबन्धोऽपि नास्ति। आत्मा असङ्गः। अस्य संघातेन सह प्रतीयमानः अहंताममतारूपसंबन्धः भ्रान्तिः। एवं घटाकाशस्य दृष्टान्तेन सङ्गत्वरूपभ्रान्तिः निवर्त्यते।