ॐ गुरुपरमात्मने नमः

This is a very early draft, and has not been proofread.

6.130   स्पटिकायां रक्तवस्त्रोपाधिना रक्तत्वप्रतीतिः इति दृष्टान्तेन कर्तृत्वभोक्तृत्वरूपभ्रान्तिनिवृत्तिः कथम्?

दृष्टान्तः – यथा रक्तवस्त्रोपरिस्थस्फटिकमणौ वस्त्रस्य रक्तत्वं संयोगसंबन्धेन भासते। परन्तु, रक्तत्वं वस्त्रस्य धर्मः। वस्त्रस्फटिकयोः वियोगे सति स्फटिकायां रक्तत्वप्रतीत्यभावात्। एवं रक्तत्वं न स्फटिकायाः धर्मः, किन्तु स्फटिकायां भ्रान्त्या भासते। दार्ष्टान्तः – एवमेव अन्तःकरणस्य धर्मः कर्तृत्वभोक्तृत्वरूपः आत्मनि तादात्म्यसंबन्धेन भासते। परन्तु सः अन्तःकरणस्य धर्मः। सुषुप्तौ अन्तःकरणात्मनोः वियोगे सति आत्मनि नैव भासते। अतः नायं आत्मनः धर्मः। आत्मने भ्रान्त्या भासते। एवं स्फटिकायां रक्तत्वप्रतीतिदृष्टान्तेन भ्रान्तिः निवर्यते।