दृष्टान्तः – दर्पणे मुखस्य प्रतिबिम्बो भासते, सः प्रतिबिम्बः दर्पणे न वर्तते। दर्पणं पश्यतः पुरुषस्य नेत्र द्वारा वृत्तिः दर्पणं स्पृष्ट्वा पुनरावृत्य स्वं मुखं व्याप्नोति। अतः बिम्बभूतमुखं प्रतिबिम्बात् अभिन्नः। प्रतिबिम्बो न मिथ्या, किन्तु सत्यः। बिम्बात् भिन्नाः प्रतिबिम्बधर्माः, धर्माः दर्पणे स्थिताः, धर्माः बिम्बाद्भिन्नाः इति तिस्रः प्रतीतयः भ्रान्तिभूताः। अतः धर्माः मिथ्यात्वनिश्चयपूर्वकं बाधित्वा बिम्बप्रतिबिम्बयोः अभेदनिश्चयः कार्यः।
दार्ष्टान्तः – बिम्बः शुद्धब्रह्मरूपः। अज्ञानरूपदर्पणे तस्य जीवरूपप्रतिबिम्बो भासते। स्वप्ने यथा, एकः जीवः मुख्यः, अन्यः स्थावजङ्गमरूपेण नानात्वेन भावस्ते। अयं जीवाभासः। सः जीवरूपप्रतिबिम्बः ईश्वररूपबिम्बाभिन्नः एव। किन्तु, मायाबलेन जीवस्य धर्मः बिम्बरूपेश्वरेण भिध्यते – धर्माश्च जीवत्वं, अल्पज्ञत्वं, अल्पशक्तिमत्त्वं, परिच्छिन्नत्वं, नानात्वं इत्यादयः। तत्प्रतीतिज्ञानं भ्रान्तिः। तद्बाधश्च तन्मिथ्यात्मनिश्चयः। जीवरूपप्रतिबिम्बः ईश्वररूपबिम्बः सदाभिन्नः इति निश्चेतव्यम्। एवं बिम्बप्रतिबिम्बदृष्टान्तेन भेदभ्रान्तिः निवर्त्यते।