ॐ गुरुपरमात्मने नमः

This is a very early draft, and has not been proofread.

6.128   पञ्चविधभ्रमनिवृत्तौ को दृष्टान्तः?

ब्रह्मसूत्रभाष्यविषयिनी टीका पञ्चदादिकानाम्नी पद्मपादाचार्यरचना। तद्विषयकं व्याख्यानं विवरणाख्यं, यस्य कर्ता श्रीपर्काशात्ममुनिः। विवरणानुसारिबिम्बप्रतिबिम्बदृष्टान्तेन भेदरूपभ्रमनिवृत्तिः। स्पटिकायां रक्तवस्त्रोपाधिना रक्तत्वप्रतीतिः। अनेन दृष्टान्तेन कर्तृत्वभोक्तृत्वरूपभ्रान्तिनिवृत्तिः। घटाकाशदृष्टान्तेन सङ्गत्वरूपभ्रमनिवृत्तिः। रज्जुसर्पदृष्टान्तेन विकारत्वरूपभ्रान्तिनिवृत्तिः। कनककुण्डलदृष्टान्तेन ब्रह्मव्यक्तिरिक्तजगत्सत्तात्वरूपभ्रमनिवृत्तिः।