दृष्टान्तः –पञ्चछिद्रान्वितघते तैलवर्तियुक्तः दीपः प्रज्वलति। अयं दीपः पात्रेस्थिततैलवर्त्यादिकं अवयवं प्रकाशयति, तथा बहिःस्थितं छिद्रसम्मुखं पुष्पगुच्छं, मणिं, रसपात्रं, गन्धं च प्रकाशयति। सूर्यकिरणैः सर्वं ब्रह्माण्डं प्रकाश्यते। महातेजः सामान्यरूपेण सर्वव्यापि भवति।
दार्ष्टान्तः – एवं पञ्चज्ञानेन्द्रियरूपछिद्रान्वितस्य स्थूलदेहरूपस्य घटस्य अन्तः हृदयकमलरूपपात्रं वर्तते। तस्मिन् मनोरूपतैलं बुद्धिरूपवर्ति च स्तः। तदारूढः आत्मरूपदीपः। सः हृदयरूपपात्रं मनोरूपतैलं बुद्धिरूपवर्ति देहस्थावयवान् इन्द्रियरूपछिन्द्राणि च प्रकाशयति (जानाति)। इन्द्रियसंबद्धशबदादिविषयान् च इन्द्रियद्वारा प्रकाशयति। ईश्वररूपेण ब्रह्मण्डादिसर्वबाह्यप्रपञ्चं प्रकाशयति। सामान्यचैतन्यं ब्रह्मरूपेण सर्वव्यापी।
यज्ञशालादृष्टान्तः अग्रे निरूपयिष्यते।
what is another example
Another example – a lit lamp which is a pot with five holes is filled with oil and a wick. This light illuminates the oil, wick and parts inside; and it illuminates what is outside the holes such as a bunch of flowers, gem, pot with liquid, smell etc. The sun’s rays illumine the entire brahmāṇḍa. It is the great tejas and is all-pervading.
In this way, the sthūla deha pot with five holes for the five sense organs has a heart flower within it. It holds the mind-oil and buddhi-wick. This lights an the ātma dīpa. This illumines the heart-pot, mind-oil, buddhi-wick and other internal parts; as well as what is outside through the indriyas. As īśvara, It illuminates the the entire bāhya prapañca. In the brahma form, it is all-pervading.
Ṭhe example of a yajña śālā will be described later.