ॐ गुरुपरमात्मने नमः

3.57.2   विधिपूर्वकं ब्रह्मनिष्ठगुरोः आश्रयः कीदृशः

अधिकारी विवेकादिशुभगुणगणान्वितः मुमुक्षुः। समित्पाणिः गुरुं गच्छेत्। साष्टाङ्गनमस्कारं कुर्यात्। “हे भगवन्। मां ब्रह्मविद्यया उपदिश” इति संप्रार्थ्य, “बन्धः कः? मोक्षः कः? अविद्या का? विद्या का?” इत्यादिप्रश्नान् प्रच्छेत्। अपि च गुरोः प्रसन्नतापर्यन्तं मनसः धनस्य वाण्याः अर्पणेन सेवां कुर्यात्। एवं ब्रह्मविद्याग्रहणविधिः ज्ञातव्यः।

how do we approach the guru

The adhikārī is the mumukṣu who has guṇas such as viveka etc. When samit in his hand, he approaches the guru and performs a namaskāra. He asks him to impart brahma vidyā. And follows up with questions such as “What is bandha? Mokśa? Avidyā? Vidyā?” etc. Until the guru is satisfied, he offers his mind, wealth, speech etc to the guru as sevā. This is the method by which brahma vidyā can be received.