दृष्टान्तः – कश्चित् केनचित् भूतेन अभिभूतः। सः तान्त्रिकं निमन्त्रयति। यश्च डमरुं प्रयुङ्क्ते। लवणादिपञ्चवस्तूनि संमिश्र्य बलिं समर्पयति। यस्मात् भूतस्य निवृत्तिर्जायते।
दार्ष्टान्तः – एवं आकाशादिपञ्चमहाभूतशरीरं जीवं अभिभवति। यन्निवृत्तये जीवः ब्रह्मनिष्ठगुरुं विधिपूर्वकं आश्रयति। सः वेदशास्त्ररूपडमरुं प्रयुङ्क्ते। सः पञ्चविंशतत्त्वानि पञ्चशः बलिना समर्पयति। सोऽहं पञ्चविंशतितत्त्वानां द्रष्टा। एवं पञ्चमहाभूतेभ्यः अत्यन्तनिवृत्तिः जायते।
what is an example of negating the five mahābhūtas
An example – A person is overcome by a bhūta being. Thus, he calls a tāntrika who plays his ḍamaru and mixes five sustances which are offered as a bali offering. And thus, the bhūta leaves.
Similarly, the body composed of of the five mahābhūtas overpowers the jīva. Thus, he resorts upon a brahma niṣṭha guru, following the rules enjoined. He employs the ḍamaru that is vedānta śāstra. He offers the 25 tattvas 5 at a time as bali. I am the seer of the 25 tattvas. Thus, one is freed from the mahābhūtas (body).