ब्राह्मणादिजातयः स्थूलदेहधर्माः, न तु सूक्ष्मदेहस्य आत्मनो वा धर्मः। लिङ्गदेहः आत्मा च स्थूलदेहोद्भवात् पूर्वं वर्तमानौ वर्तमानदेहे भविष्यद्देहे चानुवर्तेते। जातिः पूर्वदेहसंबद्धा वर्तमानदेहे नानुवर्तते। तथा वर्तमानदेहजातिः भविष्यद्देहे नानुवर्तिष्यते। अतः जातिः स्थूलदेहस्यैव धर्मः। न तु लिङ्गदेहस्य आत्मनो वा धर्मः। अपि च शरीरस्य अङ्गेषु विचार्यमानेषु जातिः न लभ्यते।
अतः नाहं जातिः, न जातिः मम, जातिः स्थूलदेहे आरोपिता, अहं जातेः द्रष्टा घटद्रष्टृवत् तद्विलक्षणः।
how do I know that I am not a jāti, and it is not mine
Jātis like brāhmaṇatva are dharmas for the gross body – and not the subtle body or ātma. The ātma and subtle body exist before the gross body, and continue into the current body and future bodies. The jāti of the prior gross body does not continue to the current gross body. Similarly, the jāti of the current gross body doesn’t continue into the next body. Thus, the jāti is a dharma of the gross body. It is not a dharma of the causal body or ātma. When we look at each part of the body, the jāti is not to be found.
Thus, I am not the jāti, and it is not mine. It is superimposed on the sthūla deha. I am it’s seer, like I see a pot, and am different from it.