ब्रह्मज्ञानेन मायायाः अविद्यायाश्च निवृत्तिः जायते। ततः कार्यसहितप्रकृतेः निवृत्तिः जायते। ततः प्रकृतिब्रह्मणोः संबन्धस्य निवृत्तिः जायते। ततः जीवभावस्य ईश्वरभावस्य च निवृत्तिः जायते। ततः जीवेश्वरयोः भेदस्य निवृत्तिः जायते। ततः बन्धस्य निवृत्तिः, मोक्षस्य सिद्धिश्च जायते।
एवं एकक्षणावच्छेदेन सर्वारोपनिवृत्तिरूपः अपवादो जायते।
सर्पतज्ज्ञानयोः बाधे सति अधिष्ठानरूपरज्जुः अवशिष्यते। प्रपञ्चतज्ज्ञानयोः बाधे सति अधिष्ठानरूपं शुद्धं ब्रह्म अवशिष्यते। अयमेव अपवादः इति।
What is the means to negate āropa
Through brahma jñāna, māyā and avidyā are removed. Then prakr̥ti along with it’s effects are also removed. And any sambandha between brahman and prakr̥ti are also removed. The identification with jīva or īśvara are removed. Differences between jīva and īśvara are removed. Thus, bandha is removed and mokṣa is achieved.
In this manner – in the same instant – all āropas are removed. This is known as apavāda.
When the sarpa and sarpa-jñāna are removed, the underlying rope along remains. In the same way, when prapañca and it’s jñāna are removed, the underlying śuddha brahman along remains. This is apavāda.