॥ षष्ठवर्णकम् ॥ पूर्वं प्रतिज्ञातदुःखादिसप्तके दुःखं शरीरं कर्म राग- द्वेषादिश्वोत्तरोत्तरहेतुत्वेनोक्तानि । इदानीं षष्ठवर्ण के रागद्वेषादिवृत्तिभेदा अभिमानोऽविवेकोऽज्ञानं च कथ्य- न्ते । रागो द्वेषः कामः क्रोधो लोभो मोहो मदो मात्सर्यमा दम्भो दर्पोsहंकार इच्छा भक्तिः श्रद्धेति रागद्वेषादिवृत्तयः षोडश । स्त्रीविषयकचित्त- वृत्ती रागः । अपकारकर्तुः प्रत्यपकारेच्छा द्वेषः । गृह- क्षेत्रादिसंपादनेच्छा कामः । तत्र विघ्नकर्तरि वैरस्यं क्रोधः । स्वसंपादितेषु किंचिदपि सत्पात्रे न देयमिति बुद्धिर्लोभः । ऐश्वर्यमदेन कृत्याकृत्यमविचार्य तूष्णीम-
lvm-040.txt
४० लघुवासुदेव , वस्थानं मोहः । स्वस्य संपदस्ति, किं वा कर्तुमशक्य- मिति बुद्धिर्मदः । स्वसमानसंपन्नजनदर्शनासहनं मात्स- र्यम् । इदं दुःखं तं विहाय मम किमित्यागतमिति चि- वृत्तिर्ष्या । इदं सुखं ममैव तस्यापि किमित्यागत- मिति बुद्धिरसूया | अनेन धर्मेण मम प्रसिद्धिर्भूयादिति चित्तवृत्तिर्दम्भः । मम न कोऽपि समान इति बुद्धि- दर्पः । सर्वत्राग्रहोsहंकारः । अवर्जनीय प्राशन विमो- चनादिकर्मचिकार्षा इच्छा । गुरौ सज्जनेषु देवतासु चा- तिप्रीतिर्भक्तिः । यागादिकर्मसु वेदान्तवाक्येषु गुरूपदेशे च विश्वासः श्रद्धा । इति षोडशविधो रागद्वेषादिः || , आत्मविचारप्रकरणे चित्तवृत्तिविचारस्य किं प्रयोज- नमिति चेत् शृणु । सकलजीवानां बन्धमोक्षौ मनसैव नान्येन । कथमिति चेत् — स्वभावनिर्मलस्य मनसोऽशु- न योगो बन्धः । शुद्धरूपेणावस्थानं मोक्षः । रागादि- चतुर्दशवृत्तयोऽप्यशुद्धाः। भक्तिश्रद्धे द्वे अपि शुद्धे । रागा- दित्रयोदशवृत्तयः सर्वेषां प्रयत्नं विनैव पुनः पुनरागच्छ- न्ति पापेष्वेव मनुष्यान्प्रवर्तयन्ति च । तद्वृत्तिशीलाना- मधोगतिरेव नोर्ध्वगतिः । रागादिवृत्तीर्निरुध्य भक्तिश्र- द्वाभ्यामेव कर्म कुर्वतः क्रमेण संसारनिवृत्तिर्भविष्यति 1
lvm-041.txt
षष्ठवर्णकम् । ४१ तस्मात्पुरुषः स्वचित्तं सम्यक्शोधयित्वा अशुद्धिहतुरागा- दिवृत्तीर्वर्जयित्वा शुद्धिहेतुभक्तिश्रद्धयोरेव चित्तं स्थाप- येत् । इच्छया क्रियमाणं क्षुत्पिपासानिवृत्तिमूत्रपुरीषवि - सर्जनादि कर्म च त्यक्तुमशक्यम् । तत्त्यागे सत्यपि दुःखमागच्छति । तेन कर्मणा स्वर्गेऽपि नास्ति नरको - sपि नास्ति । तस्मादैच्छिकं प्राशनमोचनादिकं कर्म कर्तव्यमेव ॥ एवं जाग्रत्स्वप्रयो रागादौ सति कर्मास्ति, सुषुप्ति- मूर्च्छासमाधितूष्णीं भावावस्थासु रागादि नास्ति कर्मापि नास्ति इत्यन्वयव्यतिरेकाभ्यां रागादेः कर्महेतुत्वं सि- द्धम् । इतः परं स रागादिः केनागच्छतीति चेत्, अ- भिमाने नागच्छति । एवं व्याप्तिरस्ति वेति चेत्, अस्ति । स्त्रीजनस्य ‘ अहं स्त्रीजनः’ इति यावानभिमानोऽस्ति तावती रागादिपूर्वकं भर्तृशुश्रूषागृहरक्षापाकक्रियादिक- मैसु प्रवृत्तिरागच्छति । पुरुषजनस्यापि ‘ अहं पुरुषः ‘ इति यावानभिमान आगच्छति तावती रागादि- पूर्वकं दारादिपरिग्रहे कृषिवाणिज्यादिकर्मसु च प्रवृ- चिरागच्छति । एवं सर्वेषां जीवानामपि वर्णाश्रमाद्यभि- मानेन रागादिपूर्वकं स्वस्वव्यापारे प्रवृत्तिरागच्छति ।
lvm-042.txt
४२ लघुवासुदेव तस्माद्रागादेरभिमान एव कारणम् ॥ , अस्य विचारस्य किं फलमिति चेत्, मुमुक्षुः पुरुषो जातिवर्णाश्रमवयोवस्थाद्यभिमानं त्यजेत् तस्मिंस्त्यक्ते बन्धस्त्यक्तो भवेदिति जानीहि । अभिमाने सति रा- गादि’, अभिमानाभावे रागाद्यभाव इत्यन्वयव्यतिरेक- युक्त्या च जानीहि । तत्कथमिति चेत् — जाग्रदाद्यव- स्थासु वर्णाश्रमाद्यभिमानस्य विद्यमानत्वाद्रागद्वेषादिनि- मित्ता प्रवृत्तिरागच्छति, सुषुप्तावुदासीनावस्थायां च वर्णाश्रमाद्यभिमानाभावाद्रागद्वेषादिनिमित्ता प्रवृत्तिर्ना- स्तीत्येतज्जानीहि ॥ - तर्ह्ययमभिमानः केनागच्छतीति चेत्, अविवेकेना- गच्छति । तत्कथमिति चेत् — सर्वेषां जीवानां देहव्य- तिरिक्तत्वे सत्यपि विवेकाभावादेव ‘ अहं ब्राह्मण: ‘ ‘अहं क्षत्रियः ‘ ‘ अहं वैश्यः ‘ ‘ अहं शूद्रः ‘ ‘ अहं ब्रह्मचारी ‘ ‘अहं गृहस्थः ‘ ‘ अहं वानप्रस्थः ‘ ‘ अहं संन्यासी’ ‘ अहं पुरुषः ‘ ‘ अहं स्त्री’ इत्याद्यभिमानो जा- यते । तं विना नान्यो हेतुः । अस्याभिमानस्याविवेकं 1 विना अन्यच्छरीरमवलम्बनमस्ति चेत्, क्षत्रियस्य ‘अहं
lvm-043.txt
षष्ठवर्णकम | ४३ ब्राह्मण’ ‘ इति, स्त्रियाः ‘ अहं पुरुषः’ इति, ब्रह्मचा- रिणः ‘ अहं गृहस्थः’ इत्यभिमानोऽस्तु । स न दृश्यते । तस्माच्छरीरमवलम्ब्याभिमानो नागच्छति । शिखाय- झोपवीतादिकमवलम्ब्य ‘ अहं ब्राह्मण: ‘ इति, काषाय- कमण्डल्वादिकमवलम्ब्य ‘ अहं संन्यासी’ इति चा- भिमान आगच्छत्विति चेत् । शिखायज्ञोपवीतादि वै- श्यकुलालयोरप्यस्ति । काषायकमण्डल्वादि केषांचिच्छू- द्राणां तपस्विनामप्यस्ति । तेषामेतेषां च ‘ अहं ब्राह्म- णः ‘ ‘ अहं संन्यासी’ इत्यभिमानः स्यात् । तथा न दृश्यते । स्त्रीपुरुषाभिमानवदवयवविशेषमवलम्ब्य ‘ अहं ब्राह्मणः ‘ इत्याद्यभिमान इति चेत्, सर्वेषामप्यवयव- विशेषाभावादेकरूपत्वादवयवविशेषोऽप्यवलम्बनं न भ- वति । तर्हि विशिष्टमातृपितृजन्यावयवविशेषमवलम्ब्या- भिमानविशेष इति चेत्, तज्जन्यरो मनखदन्तमूत्रपुरी- षाद्यवयवानामपि ब्राह्मणत्वादिव्यवहारः स्यात् । स न दृश्यते । तस्मादविवेकं विना अन्यत्किमप्यवलम्ब्याभि- मान आगच्छतीति ब्रह्मणापि वक्तुं न शक्यते ॥ तर्हि ब्राह्मणत्वाद्यभिमानः केनागच्छतीति सम्यग्वि- चार्यमाणे “लोके ‘उत्सव:’ इति ‘ कल्याणम्’ इति
lvm-044.txt
४४ लघुवासुदेवम ‘सभा’ इति ‘सेना’ इत्यनेकवस्तुसमूहस्य तत्तन्नाम्ना व्यवहारः प्रवर्तते । तथा मायामयस्यानिर्वचनीयस्य देहेन्द्रियादिसंघातस्यैव लोकव्यवहारेण केवलम् ‘ब्राह्म- णः’ ‘ ‘ क्षत्रिय’ ‘ ‘ वैश्यः’ ‘शूद्र’ ‘स्त्री’ पुरुषः ‘ ‘नपुंसकः ‘ ‘ गुर्जरः ‘ ‘ महाराष्ट्रकः ‘ ‘ आन्ध्रः ‘ ‘ कर्णा- टक’ ‘ ‘ द्राविड : ‘ ‘ शास्त्री’ ‘ दीक्षितः ‘ ‘ पौराणि- कः ‘ ‘ अवधानी’ ‘गङ्गास्त्रायी’ ‘ शैवः ‘ ‘ भागवतः ‘ ‘सेवक : ‘ ‘ प्राधानिकः’ ‘राजा’ ‘मन्त्री’ ‘गुरुः ‘ ‘शिष्यः’ इत्यादिसकलनामव्यवहारः । कालत्रयेऽ- प्यात्मनो नामरूपव्यवहारो नास्ति ।” इत्येवंरूपविचा- राकरणमेवाविवेकः । अनेनैवाविवेकेन सर्वेषामात्मनि व- र्णाश्रमाद्यभिमान आगच्छति ॥ अयमविवेकः केनागच्छतीति चेत्, स्वस्य निजस्य चि- दात्मरूपस्यानादिकालमारभ्य आवारकमात्मज्ञानैकाप- नोद्यं यदनाद्यज्ञानं तदेव कारणम् । इदमैवाज्ञानम् ‘मामहं न जानामि इति व्यवह्रियते । ननु लोके भ्रान्तमेकं वि- ना को वा आत्मानं न जानातीति चेत्, सर्वे भ्रान्ता एव । तत्कथमिति चेत्, ‘अहं ब्राह्मण: ‘ ‘ अहं क्षत्रि यः ‘ ‘ अहं वैश्यः ‘ ‘ अहं शूद्रः ‘ ‘ अहं ब्रह्मचारी ‘
lvm-045.txt
षष्ठवर्णकम् । ४५ ‘अहं गृहस्थः ‘ इत्यादिरूपेण मिथ्याभूतमिमं देहमेव सर्वे जानन्ति । शरीरव्यतिरिक्तमात्मानं न कोऽपि जा- नाति । अतः सर्वे भ्रान्ता एव ॥ ननु लोके केचिच्छास्त्रज्ञाः पौराणिकाथ देहमनात्म- त्वेन मन्यमाना घटकुड्यसंनिभं देहं विहायान्यमेवात्मा- जानन्ति ; हे खामिन्, भवद्भिः ‘आत्मानं न को- Sपि जानाति ‘ इति कथमुच्यत इति चेत् । हे पुत्र, ते- sपि परमार्थमात्मानं न जानन्ति । किं तु कर्तारं भो- तारं परिच्छिन्नं लोकान्तरगामिनं चिदाभासरूपं व्या- वहारिकं जीवात्मानमेवात्मत्वेन जानन्ति । तं विना अकर्तारमपरिच्छिन्नमचलं चिद्रूपं पारमार्थिकमात्मानं न जानन्ति । इदमज्ञानं केनागतमिति चेत्, अस्यानादित्वेन वेदेषु शास्त्रेषु च प्रसिद्धत्वात्कारणं वक्तुं न शक्यते । तर्हि तस्याज्ञानस्यादिर्नास्ति चेदन्तोऽपि नास्तीति निश्चयः ; तथा चेज्जीवस्य मुक्तिरपि न स्यादिति चेत्, शृणु । अज्ञानस्य आदेरभावेऽप्यन्तोऽस्त्येव । लोके केषांचित्पदा- र्थानामादेरभावेऽप्यन्तोऽस्ति । केषांचिदन्ताभावेऽप्या- 1
lvm-046.txt
४६ लघुवासुदेवम दिरस्ति । तत्कथमिति चेत् । प्रागभावस्यादिर्नास्ति, अन्तोऽस्ति । प्रध्वंसाभावस्यान्तो नास्ति, आदिरस्ति किं च वातपित्तश्लेष्मजन्यव्याधेर्मूलाज्ञाऽपि वैद्यक शास्त्रोक्तौषधैर्यथा निवृत्तिर्दृश्यते, तथाऽज्ञानस्य मूला- ज्ञानेऽपि वेदान्तशास्त्रोक्तवाक्यजन्यज्ञानेन नाशो भव- तीति सिद्धान्तः । अस्याज्ञानस्य स्वरूपलक्षणं किमिति चेत्, तद्दुर्वचम् । तथा हि — तदज्ञानं न सत्, नासत् - नापि सदसत् ; न सावयवम्, न निरवयवम्, नोभ- यात्मकम् ; न भिन्नम्, नाभिन्नम्, न भिन्नाभिन्नम् ; किं त्वनिर्वचनीयम् । तत्कथमिति चेत् । तत्त्वज्ञानेन बाधितत्वान्न सत् । शशविषाणनरविषाणगगनारविन्दा- दिवन्नाप्यसत्, ‘अहमज्ञः’ इति सर्वैरनुभूयमानत्वात् । नापि सदसत्, परस्परविरोधात् । स्थूलाकाशः सूक्ष्मः ; तस्मादपि सूक्ष्मोऽपञ्चीकृत आकाशः ; तस्मादपि सूक्ष्मा गुणाः; तेभ्योऽपि सूक्ष्ममज्ञानम् ; तस्मात्सूक्ष्मस्यापि मूलकारणत्वादज्ञानं न सावयवम् । स्थूलपदार्थजगदा- कारेण परिणामान्न निरवयवम् । अन्योन्यविरोधान्नोभ यात्मकम् । आत्मनो भिन्नमिति चेदद्वैतश्रुतिविरोधादा- त्मसत्ताव्यतिरिक्तसत्ताभावाच्च न भिन्नम् । अभिन्न-
lvm-047.txt
षष्ठवर्णकम् । ४७ मिति चेदात्मशक्तित्वाभावप्रसङ्गात् ‘ पराऽस्य शक्तिर्वि- विधैव श्रूयते’ इति श्रुतिविरोधाच्च तदपि न संभवति ; किं च आत्मनो जडत्वं मायाया वा चेतनत्वं स्यात्, आत्मनोऽविद्यादिनाम्ना च भवितव्यम्, आत्मनः स- च्चिदानन्द स्वरूपस्यानृतजडदुःखत्वमपि स्यात्; तस्मा- न्नाभिनन । भिन्नाभिन्नयोर्विरोधा लोभयात्मक । तस्मा दज्ञानमनिर्वचनीयमेव ॥ / एवं भूतादनादेरज्ञानादविवेकः, तस्मादभिमानः, त- स्माद्रागद्वेषादिः, तेन कर्म, कर्मणा शरीरम्, तस्माद्दुः- खं सांसारिकमात्मनोऽज्ञानात्परम्परया भवतीति ज्ञात- व्यम् । तर्ह्येतद्दुःखं कदा गमिष्यतीति चेत्, शरीरे गते सति दुःखं गमिष्यति । शरीरं च कर्मणि नष्टे सति न- श्यति । कर्म च रागद्वेषादौ नष्टे सति नश्यति । राग- द्वेषादिवाभिमाने नष्टे सति नश्यति । अभिमानश्चा- विवेके नश्यति सति नश्यति । अविवेकचाज्ञाने नश्यति सति नश्यति । अज्ञानं चाद्वैतब्रह्मस्वरूपस्यात्मनः स्व- स्य दृढनिश्चयरूपेण ‘ब्रह्मवाहम्’, ‘अहं ब्रह्मैवास्मि ‘ इति महावाक्यजन्यज्ञानेन विनश्यति नान्येनेति ज्ञात- व्यम् ॥
lvm-048.txt
४८ लघुवासुदेवम ननु ब्रह्महत्यादिमहापातकान्यपि प्रायश्चित्तरूपस- त्कर्मभिर्निःशेषं नश्यन्ति; तादृशकर्मशक्त्याऽल्पं मि- थ्याभूतमिदमज्ञानं किमिति न गच्छेदिति चेत् । कर्मणोऽज्ञानस्य च विरोधो नास्ति । कर्म अज्ञानं वर्धय- ति । यथा अमावास्यान्धकारं मेघावरणं वर्धयति, तथा कर्म अज्ञानं वर्धयति, न निवर्तयति । तमन्धकारं यथा सूर्यो निवर्तयति तथा अज्ञानं ज्ञानमेव निवर्तयेत्, न कर्म ॥ ननु त्रिविधकरणजन्यं कर्म हि ; ज्ञानस्याप्यन्तःकरण- जन्यवृतित्वेन कर्मत्वात्तत्कथमज्ञानं नाशयेदिति चेत्, शृणु । सत्यं वृत्तिर्मानसं कर्मैव । सा वृत्तिर्ज्ञानस्याज्ञा- ननिवर्तने रूपग्रहणे नेत्रवदुपाधिभूतैव ; न स्वयं निव- र्तिका । ज्ञानं तु निवर्तकं नित्यम् । तज्ज्ञानं स्वरूप- ज्ञानं वृत्तिज्ञानमिति द्विविधम् । तत्र सुषुप्तावज्ञानप्रका- शकं ज्ञानं स्वरूपज्ञानम् । जाग्रत्स्वप्रयोर्विषयप्रकाशकं वृत्तिज्ञानम् । यथा आदित्येन प्रकाश्यमाने कुड्येऽनेक- दर्पणादित्यदीप्तयश्च तासां मध्ये मध्ये खादित्यदीप्तिश्र, तथा जाग्रत्स्वप्रयोर्वृत्तिज्ञानप्रकाशाः सुषुप्तौ स्वरूपज्ञान- प्रकाशश्चेति ज्ञेयम् ॥
lvm-049.txt
वर्णकम् । ४९ तर्हि जाग्रत्स्वप्रयोः स्वरूपज्ञानं नास्ति किमिति चेत् । स्वरूपज्ञानं सर्वदा सर्वास्ववस्थास्वप्यस्ति । वृत्त- यः सुषुप्तौ न सन्ति । वृत्तयः सर्वा अप्यन्तःकरणधर्माः । ज्ञानमात्मस्वरूपम् । तत्स्वरूपभूतं ज्ञानं वृतिषु प्रवि- श्याज्ञानं नाशयति । केवला बुद्धिवृचिरज्ञानं नाशयितुं नेष्टे । तस्मादात्मनोऽज्ञानमप्यात्माकार वृत्तिप्रविष्टेन स्व- रूपज्ञानेनैव विनाश्यं न बुद्धिवृत्त्या । न कर्मकोटिसह- स्त्रेणापि विनाश्यम् । यथा सत्कर्मैव पापकर्म नाशयति, एवं वृत्तिज्ञानमेवाज्ञानं नाशयति । यथा माणिक्यं शि- लारूपमपि प्रकाशयुक्तत्वेन रत्नदीपमिति व्यवहियते, एवं वृत्तिज्ञानस्यापि मनोवृत्तिरूपत्वेऽपि स्वप्रविष्टस्ष- रूपज्ञानयुक्तत्वाज्ज्ञानमिति व्यवहारो गौणः, न कर्मेति व्यवहारः ॥ ननु सुषुप्तौ स्वरूपज्ञानस्याज्ञानप्रकाशकत्वेन विरो- धाभावात्कथं ज्ञानमज्ञानं नाशयेदिति चेत्, स्वरूपज्ञा- नस्याज्ञानेन विरोधाभावेऽपि वृत्तिज्ञानस्याज्ञानेन विरो- धोऽस्ति । वृत्तौ प्रविष्टस्यापि ज्ञानस्य स्वरूपज्ञानत्वात्क- थमज्ञानेन विरोध इति चेत्, लोके तृणादेः प्रकाशकत्वे- नादित्यकिरणस्य तेन विरोधाभावेऽपि सूर्यकान्तप्रविष्टस्य
lvm-050.txt
५० वासुदेव तस्यैव यथा तृणादिदाहकत्वेन तेन विरोधः, तथा स्व- रूपज्ञानस्य केवलस्याज्ञानेन विरोधाभावेऽपि वृत्तिप्रवि- ष्टस्य तस्याज्ञानेन विरोधोऽस्ति ॥ ननु वृचिज्ञानेनाज्ञानतत्कार्यनाशेऽपि वृत्चेस्तत्प्रविष्ट- ज्ञानस्यापि विद्यमानत्वात्कथमद्वैतं सिध्येदिति चेत्, कतकरजोन्यायेन वृत्तिज्ञानमप्यज्ञानं तत्कार्यं च निवर्त्य स्वमपि स्वयमेव निवर्तयेत् । वृत्तिनाशे सति वृत्तौ प्रतिबिम्बितं ज्ञानमपि बिम्बभूतं स्वरूपज्ञानमेवाधिग- च्छति । ततोऽद्वैतमात्मस्वरूपमेवावशिष्यते । एवं ज्ञाने- नैवाज्ञानस्य विनाशः ॥ एवंभूतं ज्ञानमात्मविचारेणैवागच्छति न तु कर्म- भिर्न योगेन नोपासनया वा । ज्ञानं वस्तुतन्त्रम्, अत एव कर्तुमकर्तुमन्यथा कर्तुमशक्यम् । उपासना योगश्च पुरुषतभ्वत्वात्कर्तुमकर्तुमन्यथा कर्तुं शक्यौ । ताभ्यां चित्तैकाग्रयमणिमाद्यष्टैश्वर्यं च साध्यते, न तु ज्ञानम् । उपासनायोगी मनोव्यापाररूपत्वात्क्रियात्मकौ न वस्तु- तन्त्रौ । तस्माद्वस्तुतन्त्रं ज्ञानं कर्मणा नायाति, किं तु विचारेणैव साध्यम् । सालिग्रामो रत्नं सुवर्णमित्यादिव-
lvm-051.txt
षष्ठवर्णकम् | ५१ स्तुनिर्णयो लक्षणपरीक्षाभ्यां निघर्षणेन च कर्तव्यः, न तु स्नानसंध्यावन्दनप्राणायामादिना कस्यापि साध्य इति निर्णयः । एवमात्मज्ञानमप्यात्मानात्माविचारं वि- नोपासनादिभिः साधयितुं न शक्यते । तस्मान्मुमुक्षुरि- तरव्यापारं विहाय श्रवणमननाभ्यां सदा आत्मानात्म- विचारमेव कुर्यात् । य एवं तदेकपरः सोऽस्मिन्नेव ज न्मनि संसारबन्धाद्विमुक्तः सन् जीवन्मुक्ति विदेहमुक्तिं च प्राप्नोतीति सकलवेदान्ता घोषयन्ति । एवं मयोक्तं हे पुत्र, त्वं विश्वासेन गृहीत्वा चिन्मात्रेण तिष्ठ, न तु क- दाचिदपि कर्तृत्वादिरूपेण तिष्ठ ॥ इति षष्ठवर्णकम् ॥