अस्यात्मनो दुःखं शरीरपरिग्रहाच्छरीरं च कर्मणेत्युक्तम्। तत्कर्म कतिविधमिति चेत्, शृणु। कर्म त्रिविधं – पुण्यं पापं मिश्रं चेति। देवादिशरीरं पुण्यकर्मफलम्। तिर्यगादिशरीरं सर्वं पापकर्मफलम्। मनुष्यादिशरीरं मिश्रकर्मफलम्। एवमुक्तं त्रिविधमपि कर्मोत्कृष्टं मध्यमं सामान्यमिति प्रत्येकं त्रिविधम्। एवमुक्तकर्मभेदेन जन्मभेदश्च नानाप्रकारः। तथा हि – हिरण्यगभादिशरीरं पुण्यकर्मोत्कृष्टम्। इन्द्रादिशरीरं पुण्यकर्ममध्यमम्। यक्षराक्षसपिशाचादिशरीरं पुण्यकर्मसामान्यम्। परतापकरं कण्टकवृक्षविषवृक्षव्याघ्रसर्पवृश्चिकोलूक- मशकजनूकादिशरीरं सर्वं पापकर्मोत्कृष्टम्। पनसाम्रकदलीनारिकेलादिफलपत्रपुष्पविनियोगवदृक्षलतादिकं ग्रामसूकरमहिषगर्दभोष्ट्रादिकं च सर्वं शरीरं पापकर्ममध्यमम्। अश्वत्थतुलसीबिल्वगवाश्वादिशरीरं पापकर्मसामान्यम्। इह मनुष्यलोके तु निष्काम कर्मानुष्ठानसाधनचतुष्टयसद्गुरुलाभश्रवणमननात्मज्ञानक्रमेण जीवन्मुक्तेर्विदेहमुक्तेश्व योग्यं मनुष्यशरीरं मिश्रकर्मोत्कृष्टम्। स्वाश्रमोचितर्मणां काम्यकर्मणां चानुष्ठानयोग्यं शरीरं मिश्रकर्ममध्यमम्। चण्डालपुल्कसकिरातयवनादिशरीरं मिश्रकर्मसामान्यम्। तस्माद्विवेकिना पुरुषेणैतत्कर्मफलतारतम्यं विचार्य भूमौ मनुष्यजन्मनि मिश्रकर्षोत्कृष्टं जन्म यथा सिध्येत्तथा स्ववर्णाश्रमकर्माणि कृत्वा फलेच्छां विहायेश्वरार्पणं कृत्वा आत्मविचारद्वारा मोक्षप्राप्तावेव प्रयत्नः कर्तव्य इति सिद्धान्तः ॥
एतत्त्रिविधमपि कर्म केन क्रियत इति चेत्, त्रिविधकरणैरेव क्रियत इति जानीहि। नन्वस्मिल्लोके ‘अहं करोमि’, ‘अहं करोमि’ इति वदतां सर्वेषामनुभवेनस्मिन् देहे देहाभिमानी सन्नहंशब्दार्थतया य आत्मा वर्तते तस्यात्मनः कर्तृत्वे वक्तव्ये तं विहाय त्रिविधकर्णानां भवद्भिः कर्तृत्वं कथमुच्यत इति चेत्, शृणु। आत्मा अविकारी निष्क्रियः स्वगतभेदशून्यः। तस्मादात्मनः कर्तृत्वं वक्तुं न शक्यते।
ननु कर्तृत्वं त्वात्मनिष्ठतया भाति; कर्ता चान्यो न दृश्यते; एतत्कथमिति चेत्; आत्मनि प्रतीयमानं कर्तृत्वमध्यासात्, न तु स्वभावत इति विजानीहि। स्वाभाविकमिति चेत्, न केनापि ‘वेदान्तविचारं कृत्वा ममेदं कर्तृत्वं परिहरणीयम्, अस्यानपाये संसारबन्धो नापयास्यति’ इति व्यर्थः प्रयत्नः करणीयः। आत्मनः कर्तृत्वं स्वाभाविकं भवतु प्रयत्नविशेषेण च नश्यत्विति चेत्, स्वभावस्य स्वरूपत्वात् स्वरूपनाशार्थं को वा प्रयत्नं कुर्यात् ? स्वरूपनाशे सति को वा पुरुषार्थमनुभवेत्? किं च, अकर्ता जीवन्मुक्तो न चेत् तदा वेदान्तसंप्रदायो गुरुशिष्यौ च न स्युः। किं च, कर्ता साक्षी निष्क्रिय इति प्रतिपादकस्य ‘निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम्’ (श्वे० ६.१९), ‘साक्षी चेता केवलो निर्गुणश्व’ (श्वे० ६.११) इत्यादिश्रुतिवाक्यस्यापि हानिः स्यात्। सुषुतावात्मनि विद्यमानेऽपि कर्तृत्वं न दृश्यते। यदि कर्तृत्वं तस्य स्वाभाविकमग्नेरुष्णत्वमिवोपलभ्येत। तथा नोपलभ्यते। तस्मादात्मनः कर्तृत्वं न स्वाभाविकम्।
ननु सुषुप्तौ कर्तृत्वानुपलम्भः करणवियोगात्, यथा तक्षादेः कर्तृत्वे विद्यमानेऽपि स्नानभोजनादिसमये तदनुपलम्भः, तद्वद्भवत्विति चेत्, न। तूष्णींभावावस्थायामन्तःकरणसंयोगे विद्यमानेऽपि कर्तृत्वानुपलम्भादात्मनः कर्तृत्वं न स्वाभाविकम्, किं त्वाध्यासिकमेव॥
अध्यासो नामान्यनिष्ठधर्माणामन्यत्रावभासः। यथा नौनिष्ठगमनस्य तीरस्थवृक्षे तीरस्थवृक्षनिष्ठाचलत्वस्य नावि चाध्यासवशाद्भानम्, एवं त्रिविधकरणनिष्ठकर्तृत्वस्यात्मन्यात्मनिष्ठाकर्तृत्वस्य त्रिविधकरणे च भानमज्ञानवशादेव। तस्मादात्मनः कर्तृत्वमारोपादिति जानीहि।
ननु जडस्य त्रिविधकरणस्याचेतनत्वादचेतनस्य कथं कर्तृत्वम्, करणत्रयस्यैव कर्तृत्वे तस्य करणान्तरेणापि भवितव्यमिति चेत्, शृणु। यथा लोकेऽचेतनस्य वायोर्वृक्षादीनामुन्मूलने तेषां दूरनिरसने च करणं विना कर्तृत्वम्, यथा च जलप्रवाहस्याप्यचेतनस्य वृक्षादीनामुन्मूलने तेषां दूरनिरसने च करणं विना कर्तृत्वं दृश्यते, तथा त्रिविधकरणस्यापि करणान्तरं विना कर्तृत्वमुपपद्यते ॥
एतत्त्रिविधकरणकृतानि कर्माणि कानीति चेत्, उच्यते। सविशेषचिन्ता निर्विशेषचिन्ता परलोकचिन्ता भक्तिज्ञानवैराग्यचिन्तेत्यादिबुद्धिविकाराः सर्वेऽपि मनसा क्रियमाणानि कर्माणि मानसपुण्यकर्माणि। विषयचिन्ता परेषामपकारचिन्ता वेदशास्त्रयोरप्रामाण्यचिन्ता धर्माधर्माद्यभावचिन्तेत्यादिबुद्धिविकाराः सर्वेऽपि मानसपापकर्माणि। सविशेषचिन्ताया निर्विशेषचिन्तायाः पुण्यचिन्ताया अपि विषय चिन्तादिपापचिन्तया मिश्रीकृत्यानुष्ठानं मानसं मिश्रकर्म। वेदाध्ययनं शास्त्रपठनं गीतापठनं सहस्रनामपठनं पञ्चाक्षरादिमन्त्रजपो भगवन्नामकीर्तनं परोपकारवार्त्ता सत्यवाक्यं मृदुभाषणं पूर्वभाषणं च वाचा क्रियमाणं पुण्यकर्म। वेदशास्त्रदूषणं देवतादूषणमसत्यपिशुनपारुष्यवार्त्ता अपहासवार्त्ता चेत्यादि वचनं सर्वं वाचिकं पापकर्म। वेदाध्ययने पूजाकाल एवमादिपुण्यवार्त्तासु परनिन्दाया असत्यस्य परिहासस्य लौकिकवार्त्ताया एवमादिपापानां मिश्रीकृत्यानुष्ठानं वाचिकं मिश्रकर्म। पुण्यतीर्थस्नानं गुरुदेवतानमस्कारो देवपूजाप्रदक्षिणं सज्जनदर्शनं त्यागो लोकानुग्रहसंचार एवमादिकणि कायेन क्रियमाणानि कायिकं पुण्यकर्म। परहिंसा परस्त्रीसङ्गश्चौर्यं दुष्टसङ्ग इत्यादिकर्माणि कायेन क्रियमाणानि कायिकं पापकर्म। ब्राह्मणभोजनार्थं परोपद्रवो देवालयनिर्माणार्थं परद्रव्यापहारः प्रपां स्थापयित्वा भृतकस्याप्रदानमेवमादिकर्माणि पुण्यानि पापानि च मिश्रीकृत्य कायेनानुष्ठीयमानानि कायिकं मिश्रकर्म ॥
एतानि विविधान्यपि कर्माणि सम्यग्विचारणीयानि। विचारस्य फलं किमिति चेत्, मुख्यफलमवान्तरफलमिति फलद्वयमस्ति। कथमिति चेत्। इमानि त्रिविधकर्माणि त्रिविधैरेव करणैः क्रियन्ते। आत्मा त्वयमाकाशवदसङ्गो निरंशः परिपूर्ण चैतन्यस्वरूपः। अतो न कस्यापि कर्मणः कर्ता। अत एव ‘यच्चाप्नोति यदादत्ते यच्चात्ति विषयानिह। यच्चास्य संततो भावस्तेन चात्मेति गीयते ॥’ इत्युक्त आत्मशब्दस्यार्थः। तस्मात् ‘नैकमपि कर्म चिदाकाशस्वरूपं स्पृशति’ इति ज्ञात्वा संशयं विहाय दृढानुभवेनावस्थानं मुख्यफलम्। ‘ब्रह्मज्ञाने सत्यपि त्रिविधकरणमपि पुण्यकर्मण्येव स्थापयितव्यम्, तदसंभवे मिश्रकर्मणि वा स्थापयितव्यम्, न कदाचिदपि पापकर्मणि’ इति ज्ञात्वा तथैवावस्थानमवान्तरफलम्। यथा कदलीपोषकस्य कदलीफलं मुख्यफलं तत्पत्त्रपुष्पादिकमवान्तरफलम्, तथैव त्रिविधकरणकृतकर्मज्ञानस्यापि पूर्वोक्तफलद्वयमिति ज्ञेयम् ॥
नन्वम्भसा पद्मपत्रमिव कर्मणा ज्ञानी न लिप्यते; तस्य न कोऽपि विधिर्निषेधो वा, स त्वकर्ता कर्मसाक्षी कृतकृत्य इति सिद्धान्तितत्वात्; तस्य ज्ञानिनोऽज्ञानिन इव पुण्यकर्मैवानुष्ठेयमिति नियमः कथमिति चेत्। सत्यं स ज्ञानी कृतकृत्य एव, कर्तापि न भवति। न तत्र सन्देहः। तथापि ब्रह्मविद्ब्रह्मविद्वरो ब्रह्मविद्वरीयान् ब्रह्मविविद्वरिष्ठ इति तेषां मध्ये ब्रह्मविद्वरिष्ठ एव विदेहमुक्तः। असौ वरिष्ठ एव वृत्तिशून्यः। तस्यैव न विधिनिषेधश्च। अन्येषामपि त्रयाणां ज्ञानमहिम्ना विधिनिषेधाभावेऽपि वृत्तिशून्यत्वाभावाद्व्यवहारवत्त्वाच्च लोकानुग्रहार्थं सदाचार एव स्थातव्यमित्युच्यते, न तु नियम्यते। तस्मात् तत्त्वज्ञानिना कर्मिणां मध्ये कर्मिवत् कर्मानुष्ठेयम्। जिज्ञासूनां मध्ये तु कर्म त्यक्त्वा ‘ब्रह्मैव सत्यम्, अन्यत्सर्वमसत्यम्’ इति ज्ञानमेवोपदेष्टव्यम्। अत्र प्रकृतं किमिति चेत्, त्रिविधकरणस्यैव कर्तृत्वं नात्मन इति निश्चितम् ॥
अथ त्रिविधमपि करणं स्वयमेव कर्तृ, अन्येन प्रेरितं वेति विचार्यमाणे रागद्वेषादिना प्रेरितमेव कर्तृ न स्वयम्, रागद्वेषादौ सति करणत्रयं प्रवर्तते, असति न प्रवर्तत इत्यन्वयव्यतिरेकाभ्यां रागद्वेषादेः करणप्रवर्तकत्वस्यानुभवसिद्धत्वात् ॥
ननु ‘अहं देवालयं कारयामि’, ‘अहं तटाकं कारयामि’ इत्यादिव्यवहारादात्मा कारयिता भवत्विति चेत्, न। आत्मनो निर्विकारत्वान्न तत्रापि कारयितृत्वमुपपद्यते। आत्मनि कारयितृत्वं भातीति चेत्, जपाकुसुमनिष्ठं लौहित्यं स्फटिक इव रागद्वेषादिनिष्ठं कारयितृत्वमात्मनि भ्रान्त्याऽऽरोप्यत इति ज्ञेयम्। स्वाभाविकं चेत् तन्नाशार्थं न कोऽपि यत्नं कुर्यात्, स्वभावस्य स्वरूपत्वात्। कथञ्चित् तस्य नाशे स्वरूपनाश एव स्यात्। आत्मनोऽपि कारयितृत्वं यदि स्यात्, तर्ह्यात्माऽसङ्गो निष्क्रियो अकारयितेति प्रतिपादिका ‘अदृष्टमव्यवहार्यमग्राह्यमलक्षणमचिन्त्यमव्यपदेश्यमैकात्म्यप्रत्ययसारं प्रपञ्चोपशमं शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते स आत्मा स विज्ञेयः’ (मा० ७) इति श्रुतिर्भज्येत, कारयितृत्वस्य जन्यत्वे तज्जन्यमुक्तेरपि जन्यत्वं स्यात्, सुषुप्तावपि कारयितृत्वं दृश्येत। तन्न दृश्यते। तस्मादात्मनः कारयितृत्वं न स्वाभाविकम्। किन्त्वागन्तुकमेव॥
ननु सुषुप्तौ कारयितृत्वादर्शनमात्रेणात्मनः कारयितृत्वं नास्तीति वक्तुं न शक्यते; यथोपाध्यायस्याध्यापकत्वं विद्यमानमपि शिष्यवर्गासन्निधाने न दृश्यते; तद्वत्सुषुप्तौ करणसंयोगाभावाद्विद्यमानमपि कारयितृत्वं न दृश्यते; जाग्रत्स्वप्नयोः करणसंयोगस्य सत्त्वाद्दृश्यत इति वक्तुं शक्यत्वादिति चेत् ; तर्हि जाग्रत्युदासीनतूष्णींभावावस्थायां करणसंयोगस्य विद्यमानत्वात् कारयितृत्वं दृश्येत। तन्न दृश्यते। तस्मादागन्तुकमेवेति वक्तव्यम्। यथा अन्योन्याभ्यासादयोनिष्ठदीर्घत्व हस्वत्वादयो ऽग्नावग्निनिष्ठोष्णत्वप्रकाशादयोऽयसि च भान्ति, तद्वदज्ञानादेव रागद्वेषादिनिष्ठकारयितृत्वमात्मन्यात्मनिष्ठाकारयितृत्वं रागद्वेषादौ च भाति॥
नन्वचेतनस्य रागद्वेषादेः कथं कारयितृत्वम्, न हि घटो घटान्तरं प्रेरयतीति चेत्, सत्यम्। तथापि कुत्रचिद्योग्यतावशाज्जडः प्रेरयति योग्यताऽभावात्कुत्रचिन्न प्रेरयति। यथा जडोऽप्यग्निर्गन्धकादिसंयुक्तेङ्गालचूर्णविशेषैः सहितः सञ्जडमेव बृहन्नलिकान्तः स्थितं स्थूलपाषाणं प्रेरयंस्तेन चतुरङ्गसेनां हन्ति; किं च प्रेतशरीरं जडमपि स्वज्ञातिक्रियमाणामपरक्रियां प्रति स्वयं कारयितृ भवति; एवमेवाचेतनमपि रागद्वेषादि कारयितृ भवति। तर्हि ‘आत्मा हृषीकेशः सर्वान्तर्यामी’ इति वदन्त्याः श्रुतेः किं तात्पर्यमिति चेत्, आदित्यवत्सन्निधानपात्रेण सर्वकार्यानुकूलो भवतीति तात्पर्यम्। नन्वात्मा सन्निधानमात्रेणापि सर्वप्राणिकर्महेतुर्हि, अत आत्मनोऽपि तत्पुण्यपापतत्फलसंबन्धोऽपि स्यादिति चेत्, न। यथा आदित्यस्य सन्निधानमात्रेण सकलजनपुण्यपापानुकूलस्यापि तत्पुण्यं च तत्पापं च तत्फलं च यथा न स्यात् तथा आत्मनोऽपि मन्तव्यम्। अयश्चेष्टापि सन्निधानमात्रेण स्वानुकूलां कान्तशिलां यथा न स्पृशति तथा प्राणिकर्माप्यात्मानमिति च ज्ञेयम्। तस्मान्नात्मनो निरञ्जनत्वनिर्विकारत्वभङ्गः॥
एवमात्मस्वरूपे प्रसिद्धे गुरुणोपदिश्यमानेऽपि प्रतिबन्धकत्रयेण न निश्चयो भवति। प्रतिबन्धकत्रयं च संशयभावनाऽसंभावनाविपरीतभावना चेति। ऋगादिशाखासूपदिश्यमानमुपनयनादिकर्म यथाऽनेकविधं तथर्गादिशाखासूपदिश्यमानमात्मतत्त्वमप्यनेकप्रकारं वा न वेति संशयः संशयभावना। सा सकलवेदान्ततात्पर्यावधारणरूपश्रवणेन नश्यति। एवं सर्वेषां वेदान्तानामद्वैते ब्रह्मण्येव तात्पर्यमिति श्रवणेन प्रमाणविषये संशये नष्टेऽपि इदमद्वैतं कथं संभाव्यते सत्यत्वेन प्रतीयमानेषु जीवेश्वरजगत्सु परस्परभिन्नेषु सत्स्विति बुद्धिरसंभावना। इयं स्वप्नदृष्टान्तादिरूपयुक्त्यात्मकमननेन नश्यति। एवं श्रवणे मनने च कृतेऽपि, अनाद्यविद्यावासनया सर्वस्यापि जगतो यथापूर्वं सत्यत्वप्रतीतिर्विपरीभावना। सा ब्रह्मैकाकारप्रत्ययप्रवाहरूपनिदिध्यासनेन नश्यति। एवं प्रतिबन्धकत्रयस्य नाशाकरणे यथा सर्वस्य दाहोऽप्यग्निर्मणिमन्त्रादिप्रतिबन्धकैः प्रतिबद्धः सन्नेकं तृणमपि दग्धुं न शक्नोति, एवं ज्ञानाग्निरपि प्रतिबन्धकैः प्रतिबद्धः सन्नज्ञानतत्कार्येषु किञ्चिदपि दग्धुं न शक्नोति। पूर्वोक्तप्रकारेणास्मिन् प्रतिबन्धकत्रयेऽप्यपनीते सति सद्य एवाग्निस्तृणमिवायमप्यविद्यां तत्कार्य सर्वमपि दग्धुं शक्रोति॥
किञ्च, ‘उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम्। अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये।’ इति वचनेन षड्विधलिङ्गैस्तात्पर्यनिर्णयः कर्तव्यः। अत्र च्छान्दोषष्ठाध्याये ‘सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्’ (छा० ६.२.१) इत्युपक्रम्य ‘ऐतदात्म्यमिदं सर्वं तत्सत्यम्’ (छा० ६.८.७) इत्यखण्डैकरस एवोपसंहृत इत्युपक्रमोपसंहारैकरूप्यमेकं लिङ्गम्। ‘तत्त्वमसि’ (छा० ६.८.७) इति नवकृत्वस्तस्यैवाभ्यासो द्वितीयम्। अखण्डैकरसस्य प्रत्यक्षादिप्रमाणान्तराविषयत्वमपूर्वता तृतीयम्। ‘तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ संपत्स्ये ‘ (छा० ६.१४.२) इत्यखण्डैकरसज्ञानस्य प्रारब्धभोगानन्तरं विदेहकैवल्यरूपफलवचनं चतुर्थम्। अर्थवादस्तु पञ्चमम्। ‘यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातं स्यात्’ (छा० ६.१.४) इत्यादिदृष्टान्तवचनमुपपत्त्याख्यं षष्ठम्। सृष्टिस्थितिप्रलयप्रवेशसंयमनतत्त्वंपदार्थपरिशोधनफलप्रतिपादका इति सप्तार्थवादाः। तत्र ‘तस्माद्वा एतस्मादात्मन आकाशः संभूतः’ (तै० २.१) इत्याद्याः सृष्ट्याद्यर्थवादरूपाः श्रुतय आकाशादेः सर्वस्य ब्रह्मण एवोत्पत्तेस्तस्मिन्नेवावस्थानात्पुनस्तत्रैव लयान्मृदुत्पत्तिस्थितिलयात्मकस्य घटादेर्मृदभेदवत्कारणब्रह्ममातामवगमयन्त्यो महावाक्योक्तं ब्रह्मणोऽद्वितीयत्वं संभावयामासुः। तथा ‘स एतमेव सीमानं विदार्यैतया द्वारा प्रापद्यत’ (ऐ० १.३.१२) ‘तत्सृष्ट्वा तदेवानुप्राविशत्’ (तै० २.६) ‘ अनेन जीवेनात्मनाऽनु- प्रविश्य नामरूपे व्याकरवाणि’ (छा० ६.३.२) इत्याद्याः श्रुतयो ब्रह्मण एव जीवरूपेण प्रवेशं ब्रुवन्त्यो बहिः स्थित्वाऽन्तर्गृहे प्रविष्टदेवदत्तवज्जीवब्रह्मणोरभेदं महावाक्यार्थं संभावयामासुः। तथा ‘यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः’ (बृ० ३.७.३) इत्यादिनियमनश्रुतिश्चात्यन्तभेदे नियम्यनियामकभावानुपपत्तेस्तयोरभेदमेव संभावयति। तथा ‘स वा एष पुरुषोऽन्नरसमयः’ (तै० १.१) ‘यदग्ने रोहितं रूपम्’ (छा० ६.४.१) इत्याद्यास्तत्त्वंपदार्थपरिशोधनरूपाः श्रुतयो जीवेश्वरोभयगतविरुद्धधर्मनिरसनद्वारा तयोरैक्यमेव संभावयन्ति। तथा ‘ब्रह्मविदाप्रोति परम्’ (तै० २.१) ‘अमृतः समभवत् ‘ (ऐ० ३.४) इत्याद्याश्वाभेदज्ञानस्य निर- तिशयफल प्रदर्शनेनाभेदस्य विवक्षितत्वं ज्ञापयन्त्यस्तमेव संभावयन्ति। इत्थं सृष्टिस्थितिप्रलयप्रवेशसंयमनतन्त्वंपदार्थ परिशोधनफलप्रतिपादकैः सप्तविधार्थवादैरनुगृहीतं सज्जीवब्रह्मैक्यरूपमखण्डैकरसमेवावान्तरवाक्यैः सहितं यत्प्रतिपादयत्यतोऽखण्डैकरसत्वेनैव महावाक्यस्यार्थो वक्तव्य इति षडिधलिङ्गैः श्रुतितात्पर्यावधारणं श्रवणमित्युक्तम्॥
इदानीं किं प्रकृतमिति चेत्। मयोक्तप्रकारेण विचार्य ‘रागद्वेषादिना प्रेरितं सत्रिविधकरणं त्रिविधकर्म करोति, प्रधानप्रेरितसेनया संपादितं जयं राजा अहं जितवानित्यात्मन्यारोपयति, एवमात्मा च रागद्वेषादिनिष्ठं प्रेरकत्वमज्ञानादात्मन्यभिमन्यते, एवमात्मनः कर्तृत्वं कारयितृत्वं च नास्ति।’ इति यो दृढं निश्चिनोति स एव जीवन्मुक्तः॥
इति पञ्चमवर्णकम् ॥