अपञ्चीकृतपञ्चमहाभूतैः कृतं सत् कर्मजन्यं सुखदुःखभोगसाधनं, ज्ञानेन्द्रियाणि पञ्च, कर्मेन्द्रियाणि पञ्च, प्राणादयः पञ्च, मनश्चैकं, बुद्धिरेका, एवं सप्तदशाकलाभिः सह तिष्ठति यत्तत्सूक्ष्मशरीरम्।
- श्रोत्रं त्वक् चक्षू रसना घ्राणमिति पञ्च ज्ञानेन्द्रियाणि।
- श्रोत्रस्य दिग्देवता। त्वचो वायुः। चक्षुषोः सूर्यः। रसनाया वरुणः। घ्राणस्याश्विनौ॥
- श्रोत्रस्य विषयः शब्दग्रहणम्। त्वचः स्पर्शग्रहणम्। चक्षुषो रूपग्रहणम्। रसनाया रसग्रहणम्। घ्राणस्य गन्धग्रहणम्।
- वाक्पाणिपादपायूपस्थानीति पञ्च कर्मेन्द्रियाणि।
- वाचो देवता वह्निः। हस्तयोरिन्द्रः। पादयोर्विष्णुः। पायोर्मृत्युः। उपस्थस्य प्रजापतिः॥
- वाचो विषयो भाषणम्। पाण्योर्वस्तुग्रहणम्। पादयोर्गमनम्। पायोर्मलत्यागः। उपस्थस्य आनन्द इति।
विचारसागस्थतिप्पणी (आवर्तः २९९) –
वचनक्रियाया विषयभूतः पदार्थः वक्तव्यमित्युच्यते। सः वचन क्रियाद्वारा वागिन्द्रियस्याधिभूतम्। एवमेव सर्वेन्द्रियाणां स्वस्वक्रियाद्वारा विषयभूतः पदार्थः अधिभूतमिति ज्ञेयम्। क्वचित स्थूलदृष्टया वचनादिक्रियैवाधिभूतमित्युच्यते॥
sūkṣma śarīra
The sūkṣma śarīra is composed of the apaṅcīkr̥ta mahābhūtas. It is born of karma, and is the means of bhoga such as sukha and dukha. It includes the five jñānendriyas, five karmendriyas, five prāṇas, manas and buddhi. These 17 parts make up the subtle body.
The five jñānendriyas are the senses of sound, touch, sight, taste and smell. Their devatās are dig, vāyu, sūrya, varuṇa and the aśvins respectively. Their objects are sound touch, color, taste and smell respectively.
The five karmendriyas are the senses of speech, grasping, locomotion, excretion and reproduction respectively. Their devatās are vahni, indra, viṣṇu, mr̥tyu and prajāpati respectively. Their objets are speech, grasping, locomotion, excretion and reproduction respectively.