ॐ गुरुपरमात्मने नमः

- १०९-१२१ तृतीयतरङ्गः -- गुरुशिष्यस्वरूपनिरूपणम्


आवर्तः ११८ – मनोऽर्पणम्

ब्रह्मविष्णुशिवात्मक एव श्रीसद्गुरुर्नान्य इति मनसा निश्चित्य तस्मिन् परमां *१ भक्तिं प्रेमातिशयं च कृत्वा, यथा तस्य कृपाकटाक्षः स्वस्मिन् पतेत्तथा तमनुवर्तेत। स्वप्नेऽपि तस्मिन् दोषदृष्टिं न कुर्यात्। स एव *२ हरिः, हरः, ब्रह्मा, गङ्गा, सूर्यः, इति विजानीयात्। निरतिशयक्षेमार्थी मुमुक्षुः श्रीसद्गुरोः स्वरूपं हृदि धारयन् सदा तमेव ध्यायेत्। एतत्सर्वं मनोऽर्पणमुच्यते।

*१. सा च भक्तिर्नवविधा (१) श्रवणम् (२) कीर्तनम् (३) स्मरणम् (४) पादसेवनम् (५) अर्चनम् (६) वन्दनम् (७) दास्यम् (८) सख्यम् (९) आत्मनिवेदनम्, इति तथा चोक्तमन्यत्र –

श्रवणं कीर्तनं चैव स्मरणं पादसेवनम्।
अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम्॥ इति।

*२. श्रीसद्गुरुर्यदा शिष्ये प्रसन्नो भवति तदा स विष्णुरूपेण वर्तते। यदा क्रुद्धस्तदा शिवरूपेण यदा राजसव्यापारेण युक्तस्तदा ब्रह्मरूपेण यदा प्रशान्तस्तदा गङ्गारूपेण, यदा वेदान्तवाक्यकरणैः शिष्यभ्रमसंशयादिसहिताज्ञानं निःशेषं निवर्तयति तदा सूर्यरूपेण च वर्तत इति विज्ञेयम्। इत्थं ब्रह्मनिष्ठे श्रीसद्गुरौ शिष्येण साक्षादीश्वरबुद्धिः कार्या। स्वप्नेऽपि तद्दोषग्राहिणा न भाव्यम्। ज्ञानलाभाय ज्ञानावाप्तेः प्राक् गुरुः सेव्यः। परमपि कृतघ्नतादोषनिवृत्तये गुरुः सेव्यः। तथा चोक्तम् –

आदौ ज्ञानाप्तये पश्चात् कृतघ्नत्वनिवृत्तये।
यावज्जीवं त्रयो वन्द्या वेदान्तो गुरुरीश्वरः॥ इति।