ॐ गुरुपरमात्मने नमः

This is a very early draft, and has not been proofread.

14.236   प्रारब्धस्य अन्ते कार्यसहिताज्ञानलेशस्य विलयः कथं साध्यते?

प्रारब्धस्य अन्ते न्यूनभूते अधिकभूते वा मूर्च्छाकाले यद्यपि ब्रह्माकारवृत्तिः असंभवा, यद्यपि ज्ञानिनां विधिः नास्ति, तथापि सुषुप्तिवत् मूर्च्छाकाले ब्रह्मविद्यायाः संस्कारः अस्ति। तत्संस्कारारूढचैतन्येन कार्यसहिताज्ञानलेशस्य विलयः (नाशः) भवति। यथा काष्ठारूढाग्निना तृणादिके दग्धे सति स्वस्य दाहो भवति, तथा संस्कारारूढचैतन्त्येन प्रपञ्चस्य नाशे जाते स्वस्य (ज्ञानरूपसंस्कारस्य) अपि विनाशो भवति। ततः असङ्गशुद्धसच्चिदानन्दस्वप्रकाशः स्वस्वरूपभूतः ब्रह्म अवशिष्यते। ॥इति श्रीविचारचन्द्रोदये जीवन्मुक्तिविदेहमुक्तिवर्णनं नाम चतुर्दशी कला समाप्ता॥