ज्ञानेन अज्ञास्य आवरणांशः निवर्त्यते। आवरणस्य निवृत्तौ आवरणाश्रितं सञ्चितं कर्म अनेकजन्मकृतं नश्यति। ज्ञानात् पूर्वं अनन्तरं वा क्रियमाणं “अहं अकर्ता अभोक्ता असङ्गः ब्रह्म अस्मि” इति निश्चयबलेन आश्रयं भ्रमजातं तादात्म्यं नाशयित्वा रागद्वेषयोः अभावतः जलस्थितकमलपत्रवत् ज्ञानिनः स्पर्शो नास्ति। किन्तु ज्ञानिना क्रियमानं इहजन्मनि कृतं शुभाशुभकर्माणि क्रमतः सुहॄदः सकामीभक्ताः द्वेषिणः निन्दकाः गृह्णन्ति। अज्ञानिविक्षेपशक्त्याश्रितं ज्ञानिप्रारब्धं पूर्वजन्मकृतं इहजन्मप्रारम्भकर्म भोगेन नश्यति। ततः ज्ञानी सर्वकर्ममुक्तः, कर्मरचितजन्मादिसंसारमुक्तश्च। अनया रीत्या ज्ञानी कर्मणा निवृत्तः। ॥इति श्रीविचारचन्द्रोदये ज्ञानीकर्मनिवृत्तिप्रकारवर्णनं नाम द्वादशी कला समाप्ता॥