जीवाधिष्ठानभूतस्य कूटस्थस्य ब्रह्मणा सहा मुखाभेदो भवति। बुद्धिसहितचिदाभासस्य ब्रह्मणा सह स्वस्वरूपं बाधित्वा अभेदो भवति। चिदाभासः स्वस्वरूपं बाधित्वा स्वस्य अहंशब्दस्य लक्ष्यार्थं कूटस्थरूपं जानाति। स्वीयस्य विजस्वरूपस्य “अहं कूटस्थः” इति अभिमानं कृत्वा “अहं ब्रह्म” इति जानीयात्। अनया रीत्या चिदाभासः स्वस्य ब्रह्मरूपं जानाति।