ॐ गुरुपरमात्मने नमः

This is a very early draft, and has not been proofread.

11.211   तत्पदस्य त्वंपदस्य च ऐक्यं कथं संभवति?

तत्पदस्य त्वंपदस्य च वाच्यार्थः उपाधिसहितचैतन्यम् (ईश्वरः जीवः च)। वाच्यर्थस्य ऐक्ये विरोधो भवति। तथापि तत्पदलक्ष्यार्थस्य ब्रह्मणः, त्वंपदलक्ष्यार्थस्य आत्मनः ऐक्ये विरोधाभावः। एवं तत्त्वंपदयोः महावाक्ये लक्ष्यार्थकथनेन ऐक्यं संभवति एव।