ॐ गुरुपरमात्मने नमः

This is a very early draft, and has not been proofread.

11.208.2   त्वंपदस्य वाचार्थः कः?

चक्षुः कण्ठः हॄदयं च जीवस्य देशः। जाग्रत्स्वप्नसुषुप्तयः जीवस्य कालाः। स्थूलसूक्ष्मकारणानि जीवस्य वस्तु (भोगसामग्र्यः)। इदमेव जीवस्य शरीरं च। जिश्वतैजसप्राज्ञाः जीवाभिमानिनः। जाग्रदारभ्य मोक्षपर्यन्तं भोगरूपसंसारः जीवस्य कार्यम्। अल्पशक्तिमत्त्वं, अल्पज्ञत्वं, परिच्छिन्नत्वं, नानात्वं, पराधीनत्वं, सामर्थ्याभावः, अपरोक्षत्वं, अविद्योपाधित्वं च जीवस्य धर्माः। एभिः सहिता अविद्या, तत्प्रतिबिम्बरूपः चिदाभासः, तदधिष्ठानं कूटस्थः च मिलित्वा जीवः। अयमेव जीवः त्वंपदस्य वाच्यार्थः।