ॐ गुरुपरमात्मने नमः

This is a very early draft, and has not been proofread.

11.203.4   भागत्यागलक्षणायाः उदाहरणम्

विरोधिनः वाच्यभागस्य त्यागपूर्वकं अविरोधिवाच्यार्थभागस्य ग्रहणं भागत्यागलक्षणा। पुरा कश्मिंश्चित् देशे काले दृष्टः पुरुषः कालानन्तरं कुत्रचित् दृष्टिगोचरं आगच्छति। तदा ज्ञायते – ‘दूरदेशे भूतकाले दृष्टः पुरुषः समीपदेशे वर्तमानकाले अस्ति’ इति। देशकालयोः विरोधो वर्तते। तथापि तत् त्यक्त्वा “पुरुष आगतः” इति अवोरोधिवाच्यार्थभागस्य ग्रहणं क्रियते।