ॐ गुरुपरमात्मने नमः

This is a very early draft, and has not been proofread.

11.199.2   महावाक्यानि कानि?

सामवेदे – तत्त्वमसि। ऋग्वेदे – प्रज्ञानं ब्रह्म। यजुर्वेदे – अहं ब्रह्मास्मि। अथर्वणवेदे – अयमात्मा ब्रह्म। तत्पदस्य वाच्यार्थः ईश्वरः, लक्ष्यार्थश्च शुद्धब्रह्म। इदमेव महावाक्येषु ब्रह्मशब्दस्य वाच्यार्थः लक्ष्यार्थश्च। त्वंपदस्य वाच्यार्थः जीवः, लक्ष्यार्थश्च कूटस्थः साक्षी। इदमेव महावाक्येषु प्रज्ञानमहं, अयं आत्मा इति पदत्रयस्य वाच्यार्थः लक्ष्यार्थश्च। तत्त्वमसिवाक्यस्य जीवब्रह्मणोः एकता अर्थः एव त्रयाणां महावाक्यानां अर्थः।