सत् इत्यनेन असतः निषेधः। अवशिष्टं सद्रूपं इति लक्षणया सिद्ध्यति। चित् इत्यनेन जडस्य निषेधः। अवशिष्टं चिद्रूपं इति लक्षणया सिद्ध्यति। आनदः इत्यनेन दुःखस्य निषेधः। अवविष्टं आनन्दरूपं इति लक्षणया सिद्ध्यति। ब्रह्म इत्यनेन परिच्छिन्नस्य निषेधः। अवशिष्टं व्यापकं इति लक्षणया सिद्ध्यति। स्वयंप्रकाशः इत्यनेन परप्रकाश्यस्य निषेधः। अवशिष्टः स्वयंप्रकाशः इति लक्षणया सिद्ध्यति। कूटस्थः (अविकारी) इत्यनेन विकारिणः निषेधः। अवशिष्टं निर्विकारी इति लक्षणया सिद्ध्यति। साक्षी इत्यनेन साक्ष्यस्य निषेधः। अवशिष्टः साक्षी इति लक्षणया सिद्ध्यति। द्रष्टा इत्यनेन दृश्यस्य निषेधः। अवशिष्टः द्रष्टा इति लक्षणया सिद्ध्यति। उपद्रष्टा इत्यनेन उपदृश्यस्य समीपवस्तुनः निषेधः। अवशिष्टः उपद्रष्टा इति लक्षणया सिद्ध्यति। एक इत्यनेन अनेकस्य निषेधः। अवशिष्टः एकः इति लक्षणया सिद्धति। अनया रीत्या अन्यानि विधेयविशेषणानि ज्ञातव्यानि।