ॐ गुरुपरमात्मने नमः

This is a very early draft, and has not been proofread.

8.181.2   कुतः प्रपञ्चे प्रीतिः प्रतीयते?

यः यः जाग्रदादिकालः आत्मनि भासते, सः सः कालः यद्यपि दुःखरूपः, तथापि – अध्यासं कृत्वा आत्मनः चिदाभासद्वारा प्रिया भासते। कालान्तरे न प्रियं भासते। सर्वस्मिन् काले प्रीतिः व्यभिचारिणी। अतः वस्तुतया दुःखरूपा। आत्मनि अव्यभिचारिणी प्रीतिः अस्ति। अतः आत्मा आनन्दरूपः।